home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

एकोनपञ्चाशः सर्गः ॥६-४९॥

॥रामनिर्वेदः॥

[ संज्ञामुपेत्य श्रीरामस्य लक्ष्मणार्थं विलाप :- प्राणान् परित्यक्तुं निश्चित्य तेन वानरान् प्रति गृहे निवर्तनायादेशस्य प्रदानम् ]

घोरेण शरबन्धेन बद्धौ दशरथात्मजौ। निःश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ॥ १॥ सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः। परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः॥ २॥ एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान्। स्थिरत्वात्सत्त्वयोगाच्च शरैः संदानितोऽपि सन्॥ ३॥ ततो दृष्ट्वा सरुधिरं निषण्णं गाढमर्पितम्। भ्रातरं दीनवदनं पर्यदेवयदातुरः॥ ४॥ किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा। शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम्॥ ५॥ शक्या सीतासमा नारी मर्त्यलोके विचिन्वता। न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः॥ ६॥ परित्यक्ष्याम्यहं प्राणान् वानराणां तु पश्यताम्। यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः॥ ७॥ किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्। कथमम्बां सुमित्रां च पुत्रदर्शनलालसाम्॥ ८॥ विवत्सां वेपमानां च क्रोशन्तीं कुररीमिव। कथमाश्वासयिष्यामि यदि यास्यामि तं विना॥ ९॥ कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम्। मया सह वनं यातो विना तेनगतः पुनः॥ १०॥ उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया। इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे॥ ११॥ धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ। लक्ष्मणः पतितः शेते शरतल्पे गतासुवत्॥ १२॥ त्वं नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण। गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम्॥ १३॥ येनाद्य निहता युद्धे राक्षसा विनिपातिताः। तस्यामेव क्षितैवीरः स शेतेनिहतः परैः॥ १४॥ शयानः शरतल्पेऽस्मिन् स्वशोणितपरिप्लुतः। शरजालैश्चितो भासि भास्करोऽस्तमिव व्रजन्॥ १५॥ बाणाभिहतमर्मत्वान्न शक्नोत्यभिभाषितुम्। रुजा चाब्रुवतोऽप्यस्य दृष्टिरागेण सूच्यते॥ १६॥ यथैव मां वनं यान्तमनुयातो महाद्युतिः। अहमप्यनुयास्यामि तथैवैनं यमक्षयम्॥ १७॥ इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः। इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः॥ १८॥ सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे। परुषं विप्रियं चापि श्रावितं तु कदाचन॥ १९॥ विससर्जैकवेगेन पञ्च बाणशतानि यः। इष्वस्त्रेष्वधिकस्तस्मात् कार्तवीर्याच्च लक्ष्मणः॥ २०॥ अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः। सोऽयमुर्व्यां हतः शेते महार्हशयनोचितः॥ २१॥ तच्च मिथ्याप्रलप्तं मां प्रवक्ष्यति न संशयः। यन्मया न कृतो राजा राक्षसानां विभीषणः॥ २२॥ अस्मिन् मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि। मत्वा हीनं मया राजन् रावणोऽभिद्रवेद्बली॥ २३॥ अङ्गदं तु पुरस्कृत्य ससैन्यं ससुहृज्जनः। सागरं तर सुग्रीव नीलेन च नलेन च॥ २४॥ कृतं हि हनुमता कार्यं यदन्यैर्दुष्करं रणे। ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च॥ २५॥ अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च। युद्धं केसरिणा संख्ये घोरं सम्पातिना कृतम्॥ २६॥ गवयेन गवाक्षेण शरभेण गजेन च। अन्यैश्च हरिभिर्युद्धं मदर्थे त्यक्तजीवितैः॥ २७॥ न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः। यत्तु शक्यं वयस्येन सुहृदा च परंमम॥ २८॥ कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा। मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः॥ २९॥ अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ। शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवनम्॥ ३०॥ वर्तयांचक्रिरेऽश्रूणि नेत्रैः कृष्णेतरेक्षणाः। ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः॥ ३१॥ आजगाम गदापाणिस्त्वरितं यत्र राघवः। तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम्॥ ३२॥ वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम्॥ ३३॥ निश्चेष्टौ विगतज्ञानै रणरेणुसमुक्षितौ। शयानौ शरत ल्पस्थौ द्रष्टुमायाद्विभीषणः॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रामनिर्वेदो नाम एकोनपञ्चाशः सर्गः ॥६-३९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध