home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

एकपञ्चाशः सर्गः ॥६-५१॥

॥धूम्राक्षाभिषेणनम्॥

[ श्रीरामस्य बन्धनतो मोक्षं श्रुत्वा चिन्तितेन रावणेन धूम्राक्षस्य युद्धाय प्रेषणं सेनापतिना सह तस्य नगरान्निर्गमनं च ]

तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम्। नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः॥ १॥ स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम्। सचिवानां ततस्तेषां मध्ये वचनमब्रवीत्॥ २॥ यथासौ सम्प्रहृष्टानां वानराणां समुस्थितः। बहूनां सुमहान्नादो मेघानामिव गर्जताम्॥ ३॥ व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः। तथा हि विपुलैर्नादैश्चुक्षुभे वरुणालयः॥ ४॥ तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ। अयं च सुमहान्नादः शङ्कां जनयतीव मे॥ ५॥ एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः। उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः॥ ६॥ ज्ञायतां तूर्णमेतेषां सर्वेषां वनचारिणाम्। शोककाले समुत्पन्ने हर्षकारणमुत्थितम्॥ ७॥ तथोक्तास्तेन सम्भ्रान्ताः प्राकारमधिरुह्य ते। ददृशुः पालितां सेनां सुग्रीवेण महात्मना॥ ८॥ तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ। समुत्थितौ महावेगौ विषेदुः प्रेक्ष्य राक्षसाः॥ ९॥ संत्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते। विषण्णवदना घोरा राक्षसेन्द्रमुपस्थिताः॥ १०॥ तदप्रियं दीनमुखा रावणस्य निशाचराः। कृत्स्नं निवेदयामासुर्यथावद् वाक्यकोविदाः॥ ११॥ यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ। निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ॥ १२॥ विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे। पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ॥ १३॥ तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः। चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत्॥ १४॥ घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः। अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि॥ १५॥ तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम। संशयस्थमिदं सर्वमनुपश्याम्यहं बलम्॥ १६॥ निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः। आदत्तं यैस्तु संग्रामे रिपूणां मम जीवितम्॥ १७॥ एवमुक्त्वा तु संक्रुद्धो निःश्वसन्नुरगो यथा। अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राक्षसम्॥ १८॥ बलेन महता युक्तो रक्षसां भीमविक्रम। त्वं वधायाभिनिर्याहि रामस्य सह वानरैः॥ १९॥ एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता। कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात्॥ २०॥ अभिनिष्क्रम्य तद्द्वारं बलाध्यक्षमुवाच ह। त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः॥ २१॥ धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः। बलमुद्योजयामास रावणस्याज्ञया द्रुतम्॥ २२॥ ते बद्धघण्टा बलिनो घोररूपा निशाचराः। विगर्जमानाः संहृष्टा धूम्राक्षं पर्यवारयन्॥ २३॥ विविधायुधहस्ताश्च शूलमुद‍्ग‍रपाणयः। गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैर्भृशम्॥ २४॥ परिघैर्भिण्डिपालैश्च भल्लैः प्रासैः परश्वधैः। निर्ययू राक्षसा दिग्भ्यो नर्दन्तो जलदा यथा॥ २५॥ रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैः। सुवर्णजालविहितैः खरैश्च विविधाननैः॥ २६॥ हयैः परमशीघ्रैश्च गजेन्द्रैश्च मदोत्कटैः। निर्ययु राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः॥ २७॥ वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः। आरुरोह रथं दिव्यं धूम्राक्षः खरनिःस्वनः॥ २८॥ स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः। प्रहसन् पश्चिमद्वारं हनूमान् यत्र यूथपः॥ २९॥ रथप्रवरमास्थाय खरयुक्तं खरस्वनम्। प्रयान्तं तु महाघोरं राक्षसं भीमविक्रमम्॥ ३०॥ अन्तरिक्षगता घोराः शकुनाः प्रत्यवारयन्। रथशीर्षे महान् भीमो गृध्रश्च निपपात ह॥ ३१॥ ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः। रुधिरार्द्रो महान् श्वेतः कबन्धः पतितो भुवि॥ ३२॥ विस्वरं चोत्सृजन्नादान् धूम्राक्षस्य समीपतः। ववर्ष रुधिरं देवः संचचाल च मेदिनी॥ ३३॥ प्रतिलोमं ववौ वायुर्निर्घातसमनिःस्वनः। तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे॥ ३४॥ स तूत्पातांस्तदा दृष्ट्वा राक्षसानां भयावहान्। प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितोऽभवत्। मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः॥ ३५॥ ततः सुभीमो बहुभिर्निशाचरै- र्वृतोऽभिनिष्क्रम्य रणोत्सुको बली। ददर्श तां राघवबाहुपालितां महौघकल्पां बहु वानरीं चमूम्॥ ३६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे धूम्राक्षाभिषेणनं नाम एकपञ्चाशः सर्गः ॥ ५१ ॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध