राममाश्वासमाने तु लक्ष्मणे भ्रातृवत्सले। निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद् विभीषणः॥ १॥ नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः। नीलाञ्जनचयाकारैर्मातङ्गैरिव यूथपः॥ २॥ सोऽभिगम्य महात्मानं राघवं शोकलालसम्। वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान्॥ ३॥ राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम्। ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम्॥ ४॥ व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः। अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत्॥ ५॥ विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्। लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः॥ ६॥ हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः। हनुमद्वचनात् सौम्य ततो मोहमुपागतः॥ ७॥ कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः। पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत्॥ ८॥ मनुजेन्द्रार्तरूपेण यदुक्तं च हनूमता। तदयुक्तमहं मन्ये सागरस्येव शोषणम्॥ ९॥ अभिप्रायं तु जानामि रावणस्य दुरात्मनः। सीतां प्रति महाबाहो न च घातं करिष्यति॥ १०॥ याच्यमानस्तु बहुशो मया हितचिकीर्षुणा। वैदेहीमुत्सृजस्वेति न च तत् कृतवान् वचः॥ ११॥ नैव साम्ना न दानेन न भेदेन कुतो युधा। सा द्रष्टुमपि शक्येत नैव चान्येन केनचित्॥ १२॥ वानरान् मोहयित्वा तु प्रतियातः स राक्षसः। चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति॥ १३॥ हुतवानुपयातो हि देवैरपि सवासवैः। दुराधर्षो भवत्येव संग्रामे रावणात्मजः॥ १४॥ तेन मोहयता नूनमेषा माया प्रयोजिता। विघ्नमन्विच्छतां तत्र वानराणां पराक्रमे॥ १५॥ ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते। त्यजैनं नरशार्दूल मिथ्यासंतापमागतम्॥ १६॥ सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम्। इह त्वं स्वस्थहृदयस्तिष्ठ सत्त्वसमुच्छ्रितः॥ १७॥ लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः। एष तं नरशार्दूलो रावणिं निशितैः शरैः॥ १८॥ त्याजयिष्यति तत् कर्म ततो वध्यो भविष्यति। तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः॥ १९॥ पतत्त्रिण इवासौम्याः शराः पास्यन्ति शोणितम्। तं संदिश महाबाहो लक्ष्मणं शुभलक्षणम्। राक्षसस्य विनाशाय वज्रं वज्रधरो यथा॥ २०॥ मनुजवर न कालविप्रकर्षो रिपुनिधनं प्रति यत् क्षमोऽद्य कर्तुम्। त्वमतिसृज रिपोर्वधाय वाणिममर- रिपोर्मथने यथा महेन्द्रः॥ २१॥ समाप्तकर्मा हि स राक्षसाधिपो भवत्यदृश्यः समरे सुरासुरैः। युयुत्सता तेन समाप्तकर्मणा भवेत् सुराणामपि संशयो महान्॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे इन्द्रजिन्मायाविवरणं नाम चतुरशीतितमः सर्गः ॥६-८४॥