home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
युद्धकाण्डम्

षडशीतितमः सर्गः ॥६-८६॥

॥रावणिबलकदनम्॥

[ वानररक्षसां युद्धं हनुमता रक्षः सैन्यस्य संहार इन्द्रजितो युद्धायाह्वानं च लक्ष्मणकर्तृकमिन्द्रजितो दर्शनम् ]

अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः॥ परेषामहितं वाक्यमर्थसाधकमब्रवीत्॥ १॥ यदेतद् राक्षसानीकं मेघश्यामं विलोक्यते॥ एतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः॥ २॥ अस्यानीकस्य महतो भेदने यत लक्ष्मण॥ राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति॥ ३॥ स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान्॥ अभिद्रवाशु यावद् वै नैतत् कर्म समाप्यते॥ ४॥ जहि वीर दुरात्मानं मायापरमधार्मिकम्॥ रावणिं क्रूरकर्माणं सर्वलोकभयावहम्॥ ५॥ विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः॥ ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति॥ ६॥ ऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः॥ अभ्यधावन्त सहिताः तदनीकमवस्थितम्॥ ७॥ राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः॥ उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः॥ ८॥ स सम्प्रहारस्तुमुलः संजज्ञे कपिरक्षसाम्॥ शब्देन महता लङ्कां नादयन् वै समन्ततः॥ ९॥ शस्त्रैश्च विविधाकारैः शितैर्बाणैश्च पादपैः॥ उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम्॥ १०॥ ते राक्षसा वानरेषु विकृताननबाहवः॥ निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम्॥ ११॥ तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः॥ अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान्॥ १२॥ ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः॥ रक्षसां वध्यमानानां महद्भयमजायत॥ १३॥ स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम्॥ उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते॥ १४॥ वृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः॥ आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः॥ १५॥ स भीमकार्मुकधरः कालमेघसमप्रभः॥ रक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः॥ १६॥ दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद् बलम्॥ रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम्॥ १७॥ तस्मिन् काले तु हनुमानुद्यम्य सदुरासदम्॥ धरणीधरसंकाशो महावृक्षमरिन्दमः॥ १८॥ स राक्षसानां तत् सैन्यं कालाग्निरिव निर्दहन्॥ चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः॥ १९॥ विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्॥ राक्षसानां सहस्राणि हनूमन्तमवाकिरन्॥ २०॥ शितशूलधराः शूलैरसिभिश्चासिपाणयः॥ शस्त्रिभिः शस्त्रिहस्ताश्च पट्टसैः पट्टशायुधाः॥ २१॥ परिघैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः॥ शतशश्च शतघ्नीभिरायसैरपि मुद‍्गरैः॥ २२॥ घोरैः परश्वधैश्चैव भिण्डिपालैश्च राक्षसाः॥ मुष्टिभिर्वज्रकल्पैश्च तलैरशनिसंनिभैः॥ २३॥ अभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम्॥ तेषामपि च संक्रुद्धश्चकार कदनं महत्॥ २४॥ स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित्॥ सूदमानममित्रघ्नममित्रान् पवनात्मजम्॥ २५॥ स सारथिमुवाचेदं याहि यत्रैष वानरः॥ क्षयमेष हि नः कुर्याद् राक्षसानामुपेक्षितः॥ २६॥ इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः॥ वहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे॥ २७॥ सोऽभ्युपेत्य शरान् खड्गान् पट्टशांश्च परश्वधान्॥ अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः॥ २८॥ तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः॥ रोषेण महताविष्टो वाक्यं चेदमुवाच ह॥ २९॥ युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते॥ वायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि॥ ३०॥ बाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे॥ वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः॥ ३१॥ हनूमन्तं जिघांसन्तं समुद्यतशरासनम्॥ रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः॥ ३२॥ यः स वासवनिर्जेता रावणस्यात्मसम्भवः॥ स एष रथमास्थाय हनुमन्तं जिघांसति॥ ३३॥ तमप्रतिमसंस्थानैः शरैः शत्रुनिवारणैः॥ जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि॥ ३४॥ इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन॥ ददर्श तं पर्वतसंनिकाशं रणे स्थितं भीमबलं नदन्तम्॥ ३५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे रावणिबलकदनं नाम षडशीतितमः सर्गः ॥६-८६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध