home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

दशमः सर्गः ॥४-१०॥

॥राज्यनिर्वासकथनम्॥

[ भ्रात्रा सह वैरकारणस्य कथनप्रसंगे सुग्रीवेण स्वकर्तृके वालिनः प्रसादने वालिकर्तृके च स्वस्य निष्कासने घटितस्य वृत्तान्तस्य वर्णनम् ]

ततः क्रोधसमाविष्टं संरब्धं तमुपागतम्। अहं प्रसादयांचक्रे भ्रातरं हितकाम्यया॥ १॥ दिष्ट्यासि कुशली प्राप्तो दिष्ट्या निहतो रिपुः। अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दन॥ २॥ इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम्। छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम्॥ ३॥ आर्तश्चाथ बिलद्वारि स्थितः संवत्सरं नृप। दृष्ट्वाहं शोणितं द्वारि बिलाच्चापि समुत्थितम्॥ ४॥ शोकसंविग्नहृदयो भृशं व्याकुलितेन्द्रियः। अपिधाय बिलद्वारं गिरिशृङ्गेण तत् तदा॥ ५॥ तस्माद् देशादपाक्रम्य किष्किन्धां प्राविशं पुनः। विषादात्त्विह मां दृष्ट्वा पौरैर्मन्त्रिभिरेव च॥ ६॥ अभिषिक्तो न कामेन तन्मे त्वं क्षन्तुमर्हसि। त्वमेव राजा मानार्हः सदा चाहं यथापुरम्॥ ७॥ राजभावनियोगोऽयं मया त्वद्विरहात् कृतः। सामात्यपौरनगरं स्थितं निहतकण्टकम्॥ ८॥ न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम्। मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण॥ ९॥ याचे त्वां शिरसा राजन् मया बद्धोऽयमञ्जलिः। बलादस्मिन् समागम्य मन्त्रिभिः पुरवासिभिः॥ १०॥ राजभावे नियुक्तोऽहं शून्यदेशजिगीषया। स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः॥ ११॥ धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह। प्रकृतीश्च समानीय मन्त्रिणश्चैव सम्मतान्॥ १२॥ मामाह सुहृदां मध्ये वाक्यं परमगर्हितम्। विदितं वो यथा रात्रौ मायावी स महासुरः॥ १३॥ मां समाह्वयत क्रूरो युद्धाकाङ्‍क्षी सुतुर्मतिः। तस्य तद्गर्जितं श्रुत्वा निःसृतोऽहं नृपालयात्॥ १४॥ अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः। स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः॥ १५॥ प्राद्रवद् भयसंत्रस्तो वीक्ष्यावां समुनुद्रुतौ। अनुद्रुतश्च वेगेन विवेश महाबिलम्॥ १६॥ तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम्। अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः॥ १७॥ अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम्। बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम्॥ १८॥ स्थितोऽयमिति मत्वा तु प्रविष्टो‍हं दुरासदम्। तं च मे मार्गमाणस्य गतः संवत्सरस्तदा॥ १९॥ स तु दृष्टो मया शत्रुरनिर्वेदाद् भयावहः। निहतश्च मया तत्र सो‍सुरो बन्धुभिः सह॥ २०॥ तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम्। पूर्णमासीद् दुराक्रामं स्तनतस्तस्य भूतले॥ २१॥ सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम्। निष्क्रामन्नैव पश्यामि बिलस्यापिहितं मुखम्॥ २२॥ विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः। यतः प्रतिवचो नास्ति ततोऽहं भृशदुःखितः॥ २३॥ पादप्रहारैस्तु मया बहुभिस्तद्विरितम्। ततोऽहं तेन निष्क्रम्य पथा पुरमुपागतः॥ २४॥ अत्रानेनास्मि संरुद्धो राज्यं प्रार्थयतात्मनः। सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम्॥ २५॥ एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः। तदा निर्वासयामास वाली विगतसाध्वसः॥ २६॥ तेनाहमपविद्धश्च हृतदारश्च राघव। तद्भयाच्च महीं कृत्स्ना क्रान्तेयं सवनार्णवा॥ २७॥ ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः। प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे॥ २८॥ एतत्ते सर्वमाख्यातं वैरानुकथनं महत्। अनागसा मया प्राप्तं व्यसनं पश्य राघव॥ २९॥ वालिनश्च भयार्तस्य सर्वलोकभयंकर। कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात्॥ ३०॥ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मसंहितम्। वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव॥ ३१॥ अमोघाः सूर्यसंकाशा ममैते निशिताः शराः। तस्मिन् वालिनि दुर्वृत्ते निपतिष्यन्ति वेगिताः॥ ३२॥ यावत् तं नाभिपश्यामि तव भार्यापहारिणम्। तावत् स जीवेत् पापात्मा वाली चारित्रदूषकः॥ ३३॥ आत्मानुमानात् पश्यामि मग्नं त्वं शोकसागरे। त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम्॥ ३४॥ तस्य तद् वचनं श्रुत्वा रघवस्यात्मनो हितम्। सुग्रीवः परमप्रीतः सुमहद्वाक्यमब्रवीत्॥ ३५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे राज्यनिर्वासकथनं नाम दशमः सर्गः ॥४-१०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध