वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः। पितुर्बहुमतो नित्यं ममापि च तथा पुरा॥ १॥ पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः। कपीनामीश्वरो राज्ये कृतः परमसम्मतः॥ २॥ राज्यं प्रशासतस्तस्य पितृपैतामहं महत्। अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत् स्थितः॥ ३॥ मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः। तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा॥ ४॥ स तु सुप्तजने रात्रौ किष्किन्धाद्वारमागतः। नर्दति स्म सुसंरब्धो वालिनं चाह्वयद् रणे॥ ५॥ प्रसुप्तस्तु मम भ्राता नर्दतो भैरवस्वनम्। श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा॥ ६॥ स तु वै निःसृतः क्रोधात् तं हन्तुमसुरोत्तमम्। वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना॥ ७॥ स तु निर्धूय सर्वान्नो निर्जगाम महाबलः। ततोऽहमपि सौहार्दान्निःसृतो वालिना सह॥ ८॥ स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम्। असुरो जातसंत्रासः प्रदुद्राव ततो भृशम्॥ ९॥ तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ। प्रकाशोश्च कृतो मार्गश्चन्द्रेणोद्गच्छता तदा॥ १०॥ स तृणैरावृतं दुर्गं धरण्या विवरं महत्। प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ॥ ११॥ तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः। मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः॥ १२॥ इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः। यावदत्र प्रविश्याहं निहन्मि सहसा रिपुम्॥ १३॥ मया त्वेतद् वचः श्रुत्वा याचितः स परंतपः। शापयित्वा च मां पद्भ्यां प्रविवेश बिलं महत्॥ १४॥ तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः। स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत॥ १५॥ अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसम्भ्रमः। भ्रातरं न च पश्यामि पापशङ्कि च मे मनः॥ १६॥ अथ दीर्घस्य कालस्य बिलात् तस्माद् विनिःसृतम्। सफेनं रुधिरं स्क्तमहं दृष्ट्वा सुदुःखितः॥ १७॥ नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः। निरस्तस्य च संग्रामे क्रोशतो निःस्वनो गुरोः॥ १८॥ अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम्। पिधाय च बिलद्वारं शिलया गिरिमात्रया॥ १९॥ शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे। गूहमानस्य मे तत् त्वं यत्नतो मन्त्रिभिः श्रुतम्॥ २०॥ ततोऽहं तैः समागम्य संमतैरभिषेचितः। राज्यं प्रशासतस्तस्य न्यायतो मम राघव॥ २१॥ न प्रावर्तत मे बुद्धिर्भ्रातुर्गौरवयन्त्रिता। हत्वा शत्रुं स मे भ्राता प्रविवेश पुरं तदा॥ २२॥ मानयंस्तं महात्मानं यथावच्चाभ्यवादयम्। उक्ताश्च नाशिषस्तेन संतुष्टेनान्तरात्मना॥ २३॥ नत्वा पादावहं तस्य मुकुटेनास्पृशं प्रभो। अपि वाली मम क्रोधान्न प्रसादं चकार सः॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे वैरवृत्तान्तानुक्रमो नाम नवमः सर्गः ॥४-९॥