ऋष्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः। जगाम सहसुग्रीवो वालिविक्रमपालिताम्॥ १॥ समुद्यम्य महच्चापं रामः काञ्चनभूषितम्। शरांश्चादित्यसंकाशान् गृहीत्वा रणसाधकान्॥ २॥ अग्रतस्तु ययौ तस्य राघवस्य महात्मनः। सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः॥ ३॥ पृष्ठतो हनुमान् वीरो नलो नीलश्च वानरः। तारश्चैव महातेजा हरियूथपयूथपः॥ ४॥ ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः। प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः॥ ५॥ कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा। शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः॥ ६॥ वैदूर्यविमलैस्तोयैः पद्मैश्चाशोककुट्मलैः। शोभितान् सजलान् मार्गे तटाकांश्च व्यलोकयन्॥ ७॥ कारण्डैः सारसैर्हंसैर्वञ्जुलैर्जलकुक्कुटैः। चक्रवाकैस्तथा चान्यैः शकुनैरुपनादितान्॥ ८॥ मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान्। चरतः सर्वतोऽपश्यन् स्थलीषु हरिणान् स्थितान्॥ ९॥ तटाकवैरिणश्चापि शुक्लदन्तविभूषितान्। घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः॥ १०॥ मत्तान् गिरितटोत्कृष्टाञ्जङ्गमानिव पर्वतान्। वानरान् वारिदप्रख्यान् महीरेणुसमुक्षितान्॥ ११॥ वने वनचरांश्चान्यान् खेचरांश्च विहंगमान्। पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः॥ १२॥ तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः। द्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवमब्रवीत्॥ १३॥ एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते। मेघसङ्घातविपुलः पर्यन्तकदलीवृतः॥ १४॥ किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं ही मे। कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया॥ १५॥ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः। गच्छन् नेवाचचक्षेऽथ सुग्रीवस्तन्महद् वनम्॥ १६॥ एतद् राघव विस्तीर्णमाश्रमं श्रमनाशनम्। उद्यानवनसम्पन्नं स्वादुमूलफलोदकम्॥ १७॥ अत्र सप्तजना नाम मुनयः संशितव्रताः। सप्तैवासन्नधःशीर्षा नियतं जलशायिनः॥ १८॥ सप्तरात्रकृताहारा वायुना वनवासिनः। दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः॥ १९॥ तेषामेवंप्रभावेण द्रुमप्राकारसंवृतम्। आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः॥ २०॥ पक्षिणो वर्जयन्त्येतत् तथान्ये वनचारिणः। विशन्ति मोहाद् येऽप्यत्र निवर्तन्ति न ते पुनः॥ २१॥ विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः। तूर्यगीतस्वनश्चात्र गन्धो दिव्यश्च राघव॥ २२॥ त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते। वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः॥ २३॥ एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः। मेघजालप्रतिच्छन्ना वैडूर्यगिरयो यथा॥ २४॥ कुरु प्रणामं धर्मात्मंस्तान् समुद्दिश्य राघव। लक्ष्मणेन सह भ्रात्रा प्रयतः संहताञ्जलिः॥ २५॥ प्रणमन्ति हि ये तेषां मुनीनां भावितात्मनाम्। न तेषामशुभं किञ्चिच्छरीरे राम विद्यते॥ २६॥ ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः। समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत्॥ २७॥ अभिवाद्य तु धर्मात्मा रामो भ्राता च लक्ष्मणः। सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः॥ २८॥ ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात्। ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम्॥ २९॥ ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदितार्कतेजसः। पुरीं सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागताः सह॥ ३०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे सप्तजनाश्रमप्रणामे नाम त्रयोदशः सर्गः ॥४-१३॥