home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

चतुर्दशः सर्गः ॥४-१४॥

॥सुग्रीवगर्जनम्॥

[ वालिनो वधाय श्रीरामस्याश्वासनं प्राप्य सुग्रीवस्य घोरं गर्जनम् ]

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम्। वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने॥ १॥ विस्तार्य सर्वतो दृष्टिं कानने काननप्रियः। सुग्रीवो विपुलग्रीवः क्रोधमाहारयद् भृशम्॥ २॥ ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत्। परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम्॥ ३॥ गर्जन्निव महामेघो वायुवेगपुरःसरः। अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा॥ ४॥ दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत्। हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम्॥ ५॥ प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम्। प्रतिज्ञा या त्वया वीर कृता त्वया वालिवधे पुरा॥ ६॥ सफलां तां कुरु क्षिप्रं लतां काल इवागतः। एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः॥ ७॥ तमथोवाच सुग्रीवं वचनं शत्रुसूदनः। कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया॥ ८॥ लक्ष्मणेन समुत्पाट्य यैषा कण्ठे कृता तव। शोभसे ह्यधिकं वीर लतया कण्ठसक्तया॥ ९॥ विपरीत इवाकाशे सूर्यो नक्षत्रमालया। अद्य वालिसमुत्थं ते भयं वैरं च वानर॥ १०॥ एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे। मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम्॥ ११॥ अद्य वाली विनिहतो वनपांसुषु वेष्टते। यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते॥ १२॥ ततो दोषेण मा गच्छेत् सद्यो गर्हेच्च मां भवान्। प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः॥ १३॥ तेनावेहि बलेनाद्य वालिनं निहतं मया। अनृतं नोक्तपूर्वं मे वीर कृच्छ्रेऽपि तिष्ठता॥ १४॥ धर्मलोभपरीतेन न च वक्ष्ये कथंचन। सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम्॥ १५॥ प्रसूतं कलमं क्षेत्रं वर्षेणेव शतक्रतुः। तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः॥ १६॥ सुग्रीव कुरु तं शब्दं निष्पतेद् येन वानरः। जितकाशी बलश्लाघी त्वया चाधर्षितः पुरात्॥ १७॥ निष्पतिष्यत्यसङ्गेन वाली स प्रियसंयुगः। रिपूणां धर्षिणं शूरा मर्षयन्ति न संयुगे॥ १८॥ जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः। स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः॥ १९॥ ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम्। तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः॥ २०॥ राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः। द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः। पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः॥ २१॥ ततः स जीमूतगणप्रणादो नादं ह्यमुञ्चत् त्वरया प्रतीतः। सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वानिलचञ्चलोर्मिः॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे सुग्रीवगर्जनं नाम चतुर्दशः सर्गः ॥४-१४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध