तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम्। वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्॥ १॥ गर्जतोऽस्य सुसंरम्भं भ्रातुः शत्रोर्विशेषतः। मर्षयिष्याम्यहं केन कारणेन वरानने॥ २॥ अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्। धर्षणामर्षणं भीरु मरणादतिरिच्यते॥ ३॥ सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे। सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जितः॥ ४॥ न च कार्यो विषादस्ते राघवं प्रति मत्कृते। धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति॥ ५॥ निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि। सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया॥ ६॥ प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम्। दर्पमस्य विनेष्यामि न च प्राणैर्वियोक्ष्यते॥ ७॥ अहं ह्याजिस्थितस्यास्य करिष्यामि यदीप्सितम्। वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति॥ ८॥ न मे गर्वितमायस्तं सहिष्यति दुरात्मवान्। कृतं तारे सहायत्वं सौहृदं दर्शितं मयि॥ ९॥ शापितासि मम प्राणैर्निवर्तस्व जनेन च। अलं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे॥ १०॥ तं तु तारा परिष्वज्य वालिनं प्रियवादिनी। चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्॥ ११॥ ततः स्वस्त्ययनं कृत्वा मन्त्रविद् विजयैषिणी। अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता॥ १२॥ प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम्। नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन्॥ १३॥ स निष्पत्य महातिजा वाली परमरोषणः। सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया॥ १४॥ स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम्। सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्॥ १५॥ स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम्। गाढं परिदधे वासो वाली परमरोषणः॥ १६॥ स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्। सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः॥ १७॥ श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः। सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम्॥ १८॥ तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम्। आपतन्तं महावेगमिदं वचनमब्रवीत्॥ १९॥ एष मुष्टिर्मया बद्धो गाढः संनिहिताङ्गुलिः। मया वेगविमुक्तस्ते प्राणानादाय यास्यति॥ २०॥ एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत्। तव चैष हरन् प्राणान् मुष्टिः पततु मूर्धनि॥ २१॥ ताडितस्तेन संक्रुद्धस्तमभिक्रम्य वेगतः। अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः॥ २२॥ सुग्रीवेण तु निःशङ्कं सालमुत्पाट्य तेजसा। गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः॥ २३॥ स तु वाली प्रचलितः सालताडनविह्वलः। गुरुभारसामाक्रान्ता नौः ससार्थेव सागरे॥ २४॥ तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ। प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवांबरे॥ २५॥ परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ। ततोऽवर्धत वाली तु बलवीर्यसमन्वितः॥ २६॥ सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयते। वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः॥ २७॥ वालिनं प्रति सामर्षो दर्शयामास राघवम्। वृक्षैः सशाखैः सशिखैर्वज्रकोटिनिभैर्नखैः॥ २८॥ मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः। तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव॥ २९॥ तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ। मेघाविव महाशब्दैस्तर्जमानौ परस्परम्॥ ३०॥ हीयमानमथापश्यत् सुग्रीवं वानरेश्वरम्। प्रेक्षमाणं दिशश्चैव राघवः च मुहुर्मुहुः॥ ३१॥ ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम्। शरं च वीक्षते वीरो वालिनो वधकारणत्॥ ३२॥ ततो धनुषि संधाय शरमाशीविषोपमम्। पूरयामास तच्चापं कालचक्रमिवान्तकः॥ ३३॥ तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः। प्रदुद्रुवुर्मृगाश्चैव युगान्त इव मोहिताः॥ ३४॥ मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसंनिभः। राघवेण महाबाणो वालिवक्षसि पातितः॥ ३५॥ ततस्तेन महातेजा वीर्येत्सिक्तः कपीश्वरः। वेगेनाभिहतो वाली निपपात महीतले॥ ३६॥ इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतले। आश्वयुक्समये मासि गतश्रीको विचेतनः॥ ३७॥ नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम्। ससर्ज दीप्तं तममित्रमर्दनं सधूममग्निं मुखतो यथा हरः॥ ३८॥ अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानिलोद्धतः। विचेतनो वासवसूनुराहवे प्रभ्रंशितेन्द्रध्वजवत् क्षितिं गतः॥ ३९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे वालिसंहारो नाम षोडशः सर्गः ॥४-१६॥