ततः शरेणाभिहतो रामेण रणकर्कशः। पपात सहसा वाली निकृत्त इव पादपः॥ १॥ स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः। अपतद् देवराजस्य मुक्तरश्मिरिव ध्वजः॥ २॥ तस्मिन् निपतिते भूमौ वानराणां गणेश्वरे। नष्टचन्द्रमिव व्योम न व्यराजत मेदिनी॥ ३॥ भूमौ निपतितस्यापि तस्य देहं महात्मनः। न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः॥ ४॥ शक्रदत्ता वरा माला काञ्चनी वज्रभूषिता। दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा॥ ५॥ स तया मालया वीरो हैमया हरियूथपः। सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत्॥ ६॥ तस्य माला च देहश्च मर्मघाती च यः शरः। त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते॥ ७॥ तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम्। रामबाणासनोत्क्षिप्तमावहत् परमां गतिम्॥ ८॥ तं तथा पतितं संख्ये गतार्चिषमिवानलम्। बहुमान्य च तं वीरं वीक्षमाणं शनैरिव॥ ९॥ ययातिमिव पुण्यान्ते देवलोकादिह परिच्युतम्। आदित्यमिव कालेन युगान्ते भुवि पातितम्॥ १०॥ महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम्। महेन्द्रपुत्रं पतितं वालिनं हेममालिनम्॥ ११॥ व्यूढोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम्। लक्ष्मणानुगतो रामो ददर्शोपससर्प च॥ १२॥ तं दृष्ट्वा राघवंवाली लक्ष्मणं च महाबलम्। अब्रवीत् प्रश्रितं वाक्यं परुषं धर्मसंहितम्॥ १३॥ त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः। कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः॥ १४॥ पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः। यदहं युद्धसंरब्धः शरेणोरसि ताडितः॥ १५॥ रामः करुणवेदी च प्रजानां च हिते रतः। सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः॥ १६॥ इति ते सर्वभूतानि कथयन्ति यशो भुवि। दमः शमः क्षमा धर्मो धृतिः सत्यं पराक्रमः॥ १७॥ पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु। तान् गुणान् सम्प्रधार्याहमग्र्यं चाभिजनं तव॥ १८॥ तारया प्रतिषिद्धोऽपि सुग्रीवेण समागतः। न मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसि॥ १९॥ इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव। स त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम्॥ २०॥ जाने पापसमाचारं तृणैः कूपमिवावृतम्। सतां वेषधरं पापं प्रच्छन्नमिव पावकम्॥ २१॥ नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम्। विषये वा पुरे वा ते यदा नापकरोम्यहम्॥ २२॥ न च त्वामवजानेऽहं कस्मान्मां हंस्यकिल्बिषम्। फलमूलाशनं नित्यं वानरं वनगोचरम्॥ २३॥ मामिहाप्रतियुध्यन्तमन्येन च समागतम्। त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः॥ २४॥ लिङ्गमप्यस्ति ते राजन् दृश्यते धर्मसंहितम्। कः क्षत्त्रियकुले जातः श्रुतवान् नष्टसंशयः॥ २५॥ धर्मलिङ्गप्रतिच्छन्नः क्रूरं कर्म समाचरेत्। राम राघवकुले जातो धर्मवानिति विश्रुतः॥ २६॥ अभव्यो भव्यरूपेण किमर्थं परिधावसे। साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ॥ २७॥ पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु। वयं वनचरा राम मृगा मूलफलाशनाः॥ २८॥ एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वर। भूमिर्हिरण्यं रूप्यं च विग्रहे कारणानि च॥ २९॥ अत्र कस्ते वने लोभो मदीयेषु फलेषु वा। नयश्च विनयश्चोभौ निग्रहानुग्रहावपि॥ ३०॥ राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः। त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः॥ ३१॥ राजवृत्तेरसंकीर्णः शरासनपरायणः। न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता॥ ३२॥ इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर। हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम्॥ ३३॥ किं वक्ष्यसि सतां मध्ये कृत्वा कर्म जुगुप्सितम्। राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः॥ ३४॥ नास्तिकः परिवेत्ता च सर्वे निरयगामिनः। सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः॥ ३५॥ लोकं पापात्मनामेते गच्छन्त्यत्र न संशयः। अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम्॥ ३६॥ अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः। पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्त्रेण राघव॥ ३७॥ शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः। चर्म चास्थि च मे राजन्न स्पृशन्ति मनीषिणः॥ ३८॥ अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः। तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम्॥ ३९॥ तदतिक्रम्य मोहेन कालस्य वशमागतः। त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा॥ ४०॥ प्रमदा शीलसम्पन्ना धूर्तेन पतिना यथा। शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः॥ ४१॥ कथं दशरथेन त्वं जातः पापो महात्मना। छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना॥ ४२॥ त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना। अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम्॥ ४३॥ वक्ष्यसे चेदृशं कृत्वा सद्भिः सह समागतः। उदासीनेषु योऽस्मासु विक्रमोऽयं प्रकाशितः॥ ४४॥ अपकारिषु तं राजन्न हि पश्यामि विक्रमम्। दृश्यमानस्तु युध्येथा मया यदि नृपात्मज॥ ४५॥ अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया। त्वयादृश्येन तु रणे निहतोऽहं दुरासदः॥ ४६॥ प्रसुप्तः पन्नगेनैव नरः पापवशं गतः। मामेव यदि पूर्वं त्वमेतदर्थमचोदयः॥ ४७॥ मैथिलीमहमेकाह्ना तव चानीतवान् भवेः। सुग्रीवप्रियकामेन यत्कृतेऽस्मि हतस्त्वया॥ ४८॥ कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे। न्यस्तां सागरतोये वा पाताले वापि मैथिलीम्॥ ४९॥ आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव। युक्तं यत् प्राप्नुयाद् राज्यं सुग्रीवः स्वर्गते मयि॥ ५०॥ अयुक्तं यदधर्मेण त्वयाहं निहतो रणे। काममेवंविधो लोकः कालेन विनियुज्यते॥ क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम्॥ ५१॥ इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाताद् व्यथितो महात्मा। समीक्ष्य रामं रविसंनिकाशं तूष्णीं बभूवामरराजसूनुः॥ ५२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे रामाधिक्षेपो नाम सप्तदशः सर्गः ॥४-१७॥