home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

अष्टादशः सर्गः ॥४-१८॥

॥वालिवधसर्मथनम्॥

[ वालिनो वचनस्योत्तरं ददता श्रीरामेण तस्मै दत्तस्य दण्डस्य यथौचित्यं सिद्धयेत्तथा प्रतिपादनं स्वापराधक्षमामभ्यर्थयता निरुत्तरेण वालिनाङ्गद- रक्षार्थं प्रार्थनाकरणं श्रीरामेण तस्मै सान्त्वना- प्रदानं च ]

इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम्। परुषं वालिना रामो निहतेन विचेतसा॥ १॥ तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम्। उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्॥ २॥ धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम्। अधिक्षिप्तस्तदा रामः पश्चाद् वालिनमब्रवीत्॥ ३॥ धर्ममर्थं च कामं च समयं चापि लौकिकम्। अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे॥ ४॥ अपृष्ट्वा बुद्धिसम्पन्नान् वृद्धानाचार्यसम्मतान्। सौम्य वानरचापल्यात् त्वं मां वक्तुमिहेच्छसि॥ ५॥ इक्ष्वाकूणामियं भूमिः सशैलवनकानना। मृगपक्षिमनुष्याणां निग्रहाप्रग्रहावपि॥ ६॥ तां पालयति धर्मात्मा भरतः सत्यवानृजुः। धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः॥ ७॥ नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम्। विक्रमश्च यथा दृष्टः स राजा देशकालवित्॥ ८॥ तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः। चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः॥ ९॥ तस्मिन् नृपतिशार्दूले भरते धर्मवत्सले। पालयत्यखिलां भूमिं कश्चरेद् धर्मनिग्रहम्॥ १०॥ ते वयं धर्मविभ्रष्टं स्वधर्मे परमे स्थिताः। भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि॥ ११॥ त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः। कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि॥ १२॥ ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति। त्रयस्ते पितरो ज्ञेया धर्मे वर्त्मनि वर्तिनः॥ १३॥ यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः। पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम्॥ १४॥ सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवङ्गम। हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभे॥ १५॥ चपलश्चपलैः सार्धं वानरैरकृतात्मभिः। जात्यन्ध इव जात्यन्धैर्मन्त्रयन् द्रक्ष्यसे नु किम्॥ १६॥ अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते। न हि मां केवलं रोषात् त्वं विगर्हितुमर्हसि॥ १७॥ तदेतत् कारणं पश्य यदर्थं त्वं मया हतः। भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम्॥ १८॥ अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः। रुमायां वर्तसे कामात् स्‍नुषायां पापकर्मकृत्॥ १९॥ तद् व्यतीतस्य ते धर्मात् कामवृत्तस्य वानर। भ्रातृभार्यावमर्शेऽस्मिन् दण्डोऽयं प्रतिपादितः॥ २०॥ न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः। दण्डादन्यत्र पश्यामि निग्रहं हरियूथप॥ २१॥ न हि ते मर्षये पापं क्षत्‍त्रियोऽहं कुलोद्भवः। औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः॥ २२॥ प्रचरेत नरः कामात् तस्य दण्डो वधः स्मृतः। भरतस्तु महीपालो वयं चादेशवर्तिनः॥ २३॥ त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम्। गुरुर्धर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन्॥ २४॥ भरतः कामयुक्तानां निग्रहे पर्यवस्थितः। वयं तु भरतादेशं वधिं कृत्वा हरीश्वर॥ २५॥ त्वद्विधान् भिन्नमर्यादान् नियन्तुं पर्यवस्थिताः। सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा॥ २६॥ दारराज्यनिमित्तं च निःश्रेयसि रतः स मे। प्रतिज्ञा च मया दत्ता तदा पवकसंनिधौ॥ २७॥ प्रतिज्ञाय कथं शक्यं मद्विधेनानवेक्षितुम्। तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः॥ २८॥ शासनं तव यद् युक्तं तद् भवाननुमन्यताम्। सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः॥ २९॥ वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यतः। शक्यं त्वयापि तत् कार्यं धर्ममेवानुवर्तता॥ ३०॥ श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ। गृहीतौ धर्मकुशलैस्तत्तथा चरितं मया॥ ३१॥ राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः। निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा॥ ३२॥ शासनाद्वा विमोक्षाद् वा स्तेनः स्तेयाद्विमुच्यते। राजा त्वशासन् पापस्य तदवाप्नोति किल्बिषम्॥ ३३॥ आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम्। श्रमणेन कृते पापे यथा पापं त्वया कृतम्॥ ३४॥ अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः। प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः॥ ३५॥ तदलं परितापेन धर्मतः परिकल्पितः। वधो वानरशार्दूल न वयं स्ववशे स्थिताः॥ ३६॥ शृणु चाप्यपरं भूयः कारणं हरिपुंगव। तच्छ्रुत्वा हेतुमद्वीर न मन्युं कर्तुमर्हसि॥ ३७॥ न मे तत्र मनस्तापो न मन्युर्हरिपूथप। वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः॥ ३८॥ प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून् मृगान्। प्रधावितान् वा वित्रस्तान् विस्रब्धांश्चापि निष्ठितान्॥ ३९॥ प्रमत्तानप्रमत्तान् वा नरा मांसार्शिनो भृशम्। विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते॥ ४०॥ यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः। तस्मात् त्वं निहतो युद्धे मया बाणेन वानर॥ ४१॥ अयुध्यन् प्रतियुध्यन् वा यस्माच्छाखामृगो ह्यसि। दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च॥ ४२॥ राजानो वानरश्रेष्ठ प्रदातारो न संशयः। तान् न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्॥ ४३॥ देवा मानुषरूपेण चरन्त्येते महीतले। त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः॥ ४४॥ प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम्। एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम्॥ ४५॥ न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः। प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः॥ ४६॥ यत् त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः। प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात्॥ ४७॥ यदयुक्तं मया पूर्वं प्रमादादुक्तमप्रियम्। तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव॥ ४८॥ त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः। कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया॥ ४९॥ मामप्यवगत धर्माणं व्यतिक्रान्तपुरस्कृतम्। धर्मसंहितया वाचा धर्मज्ञ परिपालय॥ ५०॥ न चात्मानमहं शोचे न तारां न च बान्धवान्। यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम्॥ ५१॥ स ममादर्शनाद् दीनो बाल्यात् प्रभृति लालितः। तटाक इव पीताम्बुरुपशोषं गमिष्यति॥ ५२॥ बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः। तारेयो राम भवता रक्षणीयो महाबलः॥ ५३॥ सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम्। त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः॥ ५४॥ या ते नरपते वृत्तिर्भरते लक्ष्मणे च या। सुग्रीवे चाङ्गदे राजंस्तां त्वमाधातुमर्हसि॥ ५५॥ मद्दोषकृतदोषां तां यथा तारां तपस्विनीम्। सुग्रीवो नावमन्येत तथावस्थातुमर्हसि॥ ५६॥ त्वया ह्यनुगृहीतेन राज्यं श्क्यमुपासितुम्। त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना॥ ५७॥ शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम्। त्वत्तोऽहं वधमाकाङ्‍क्षन् वार्यमाणोऽपि तारया॥ ५८॥ सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः। इत्युक्त्वा वानरो रामं विरराम हरीश्वरः॥ ५९॥ स तमाश्वासयद् रामो वालिनं व्यक्तदर्शनम्। सामसम्पन्नया वाचा धर्मतत्त्वार्थयुक्तया॥ ६०॥ न संतापस्त्वया कार्य एतदर्थं प्लवङ्गम। न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम॥ ६१॥ वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः। दण्ड्ये यः पातयेद् दण्डं दण्ड्यो यश्चापि दण्ड्यते॥ ६२॥ कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः। तद् भवान् दण्डसंयोगादस्माद् विगतकल्मषः॥ ६३॥ गतः स्वां प्रकृतिं धर्म्यां धर्मद्य्ष्टेन वर्त्मना। त्यज शोकं च मोहं च भयं च हृदये स्थितम्॥ ६४॥ त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम्। यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर। तथा वर्तेत सुग्रीवे मयि चापि न संशयः॥ ६५॥ स तस्य वाक्यं मधुरं महात्मनः समाहितं धर्मपथानुवर्तिनः। निशम्य रामस्य रणावमर्दिनो वचः सुयुक्तं निजगाद वानरः॥ ६६॥ शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो। इदं महेन्द्रोपम भीमविक्रम प्रसादितस्त्वं क्षम मे नरेश्वर॥ ६७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे वालिवधसमर्थनं नाम अष्टादशः सर्गः ॥४-१८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध