home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

पञ्चचत्वारिंशः सर्गः ॥४-४५॥

॥वानरबलप्रस्थानम्॥

[ विभिन्ना दिशः प्रति गच्छतां वानराणां सुग्रीव - समक्षे स्वीयसोत्साहवचसां श्रावणम् ]

सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः। पुनस्तानब्रवीद्भूयो रामकार्यार्थसिद्धये॥ १॥ एवमेतद् विचेतव्यं यन्मया परिकीत्रितम्। तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः॥ २॥ शलभा इव संछाद्य मेदिनीं सम्प्रतस्थिरे। रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः॥ ३॥ प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः। उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्॥ ४॥ प्रतस्थे हरिभिर्वीरो हरिः शतवलिस्तदा। पूर्वां दिशं प्रति ययौ विनतो हरियूथपः॥ ५॥ ताराङ्गदादिसहितः प्लवगः पवनात्मजः। अगस्त्याचरितामाशां दक्षिणां हरियूथपः॥ ६॥ पश्चिमां च दिशं घोरां सुषेणः प्लवगेश्वरः। प्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम्॥ ७॥ ततः सर्वा दिशो राजा चोदयित्वा यथातथम्। कपिसेनापतिन् मुख्यान् मुमोद सुखितः सुखम्॥ ८॥ एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः। स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे॥ ९॥ आनयिष्यामहे सीतां हनिष्यामश्च रावणम्। नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः॥ १०॥ क्ष्वेलन्तो धावमानाश्च विनदन्तो महाबलाः। अहमेको हनिष्यामि प्राप्तं रावणमाहवे॥ ११॥ ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्। वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति॥ १२॥ एक एवाहरिष्यामि पातालादपि जानकीम्। विमथिष्याम्यहं वृक्षान् पातयिष्याम्यहं गिरीन्॥ १३॥ धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान्। अहं योजनसंख्यायाः प्लवेयं नात्र संशयः॥ १४॥ शतं योजनसंख्यायाः शतं समधिकं ह्यहम्। भूतले सागरे वापि शैलेषु च वनेषु च॥ १५॥ पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः। इत्येकैकं तदा तत्र वानरा बलदर्पिताः॥ ऊचुश्च वचनं तत्र हरिराजस्य संनिधौ॥ १६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे वानरबलप्रस्थानं नाम पञ्चचत्वारिंशः सर्गः ॥४-४५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध