home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

अष्टचत्वारिंशः सर्गः ॥४-४८॥

॥कण्डूवनादिविचयः॥

[ दक्षिणदिग्गतैर्वानरैः सीतानुसन्धानस्य प्रारम्भणम् ]

सह ताराङ्गदाभ्यां तु गत्वा स हनुमान् कपिः। सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे॥ १॥ स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः। विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च॥ २॥ पर्वताग्रनदीदुर्गान् सरांसि विपुलान् द्रुमान्। वृक्षषण्डांश्च विविधान् पर्वतान् घनपादपान्॥ ३॥ अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम्। न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम्॥ ४॥ ते भक्षयन्तो मूलानि फलानि विविधानि च। अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह॥ ५॥ स तु देशो दुरन्वेषो गुहागहनवान् महान्। निर्जलं निर्जनं शून्यं गहनं रोमहर्षणम्॥ ६॥ त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः। तादृशान्यप्यरण्यानि विचित्य भृशपीडिताः॥ ७॥ स देशश्च दुरन्वेष्यो गुहागहनवान् महान्॥ ७॥ त्यक्त्वा तु तं ततो देशं सर्वे वै हरियूथपाः। देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः॥ ८॥ यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः। निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम्॥ ९॥ न सन्ति महिषा यत्र न मृगा न च हस्तिनः। शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः॥ १०॥ न यत्र वृक्षा नौषध्यो न लता नापि वीरुधः। स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः॥ ११॥ प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्च विवर्जिताः। कण्डुर्नाम महाभागः सत्यवादी तपोधनः॥ १२॥ महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः। तस्य तस्मिन् वने पुत्रो बालको दशवार्षिकः॥ १३॥ प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः। तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम्॥ १४॥ अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम्। तस्य ते काननान्तांश्च गिरीणां कन्दराणि च॥ १५॥ प्रभवाणि नदीनां च विचिन्वन्ति समाहिताः। तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम्॥ १६॥ हर्तारं रावणं वापि सुग्रीवप्रियकारिणः। ते प्रविश्याशु तं भीमं लतागुल्मसमावृतम्॥ १७॥ ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम्। तं दृष्ट्वा वानरा घोरं स्थितं शैलमिवासुरम्॥ १८॥ गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम्। सोऽपि तान् वानरान् सर्वान् नष्टाः स्थेत्यब्रवीद् बली॥ १९॥ अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संहितम्। तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा॥ २०॥ रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह। स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन्॥ २१॥ असुरो न्यपतद् भूमौ पर्यस्त इव पर्वतः। तेऽपि तस्मिन् निरुच्छ्वासे वानरा जितकाशिनः॥ २२॥ व्यचिन्वन् प्रायशस्तत्र सर्वं तद्‍गिरिगह्वरम्। विचितं तु ततः कृत्वा सर्वं ते काननं पुनः॥ २३॥ अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम्। ते विचित्य पुनः खिन्ना विनिष्पत्य समागताः। एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे कण्डूवनादिविचयो नाम अष्टचत्वारिंशः सर्गः ॥४-४८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध