अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत्। परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः॥ १॥ वनानि गिरयो नद्यो दुर्गाणि गहनानि च। दर्यो गिरिगुहाश्चैव विचितानि समन्ततः॥ २॥ तत्र तत्र सहास्माभिर्जानकी न च दृश्यते। तद्वा रक्षो हृता येन सीता सुरसुतोपमा॥ ३॥ कालश्च नो महान् यातः सुग्रीवश्चोग्रशासनः। तस्माद् भवन्तः सहिता विचिन्वन्तु समन्ततः॥ ४॥ विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम्। विचिनुध्वं तथा सीतां पश्यामो जनकात्मजाम्॥ ५॥ अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम्। कार्यसिद्धिकराण्याहुस्तस्मादेतद् ब्रवीम्यहम्॥ ६॥ अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः। खेदं त्यक्त्वा पुनः सर्वैर्वनमेतद् विचीयताम्॥ ७॥ अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम्। अलं निर्वेदमागम्य न हि नो मीलनं क्षमम्॥ ८॥ सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः। भेतव्यं तस्य सततं रामस्य च महात्मनः॥ ९॥ हितार्थमेतदुक्तं वः क्रियतां यदि रोचते। उच्यतां हि क्षमं यन्नः सर्वेषामेव वानराः॥ १०॥ अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः। उवाचाव्यक्तया वाचा पिपासाश्रमखिन्नया॥ ११॥ सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह। हितं चैवानुकूलं च क्रियतामस्य भाषितम्॥ १२॥ पुनर्मार्गामहे शैलान् कन्दरांश्च दरीस्तथा। काननानि च शून्यानि गिरिप्रस्रवणानि च॥ १३॥ यथोद्दिष्टानि सर्वाणि सुग्रीवेण महात्मना। विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः॥ १४॥ ततः समुत्थाय पुनर्वानरास्ते महाबलाः। विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम्॥ १५॥ ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम्। शृङ्गवन्तं दरीमन्तमधिरुह्य च वानराः॥ १६॥ तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च। व्याचिन्वन्ते हरिवराः सीतादर्शनकाङ्क्षिणः॥ १७॥ तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः। न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम्॥ १८॥ ते तु दृष्टिगतं दृष्ट्वा तं शैलं बहुकन्दरम्। अवारोहन्त हरयो वीक्षमाणाः समन्ततः॥ १९॥ अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः। स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः॥ २०॥ ते मुहूर्तं समाश्वस्ताः किञ्चिद्भग्नपरिश्रमाः। पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्॥ २१॥ हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः। विन्ध्यमेवादिस्तावद्विचेरुस्ते ततस्ततः॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे रजतपर्वतविचयो नाम एकोनपञ्चाशः सर्गः ॥४-४९॥