home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

षष्ठितमः सर्गः ॥४-६०॥

॥संपातिपुरावृत्तवर्णनम्॥

ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः। उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः॥ १॥ तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम्। जनितप्रत्ययो हर्षात् सम्पातिः पुनरब्रवीत्॥ २॥ कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम। तथ्यं संकीर्तयिष्यामि यथा जानामि मैथिलीम्॥ ३॥ अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा ह्यहम्। सूर्यतापपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः॥ ४॥ लब्धसंज्ञस्तु षड्रात्राद् विवशो विह्वलन्निव। वीक्षमाणो दिशः सर्वा नाभिजानामि किञ्चन॥ ५॥ ततस्तु सागरान् शैलान् नदीः सर्वाः सरांसि च। वनानि च प्रदेशांश्च समीक्ष्य मतिरागमत्॥ ६॥ हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान्। दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः॥ ७॥ आसीच्चात्राश्रमः पुण्यः सुरैरपि सुपूजितः। ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपा भवत्॥ ८॥ अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना। वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे॥ ९॥ अवतीर्य च विन्ध्याग्रात् कृच्छ्रेण विषमाच्छनैः। तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः॥ १०॥ तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम्। जटायुषा मया चैव बहुशोऽधिगतो हि सः॥ ११॥ तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः। वृक्षो नापुष्पितः कश्चिदफलो वा न विद्यते॥ १२॥ उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः। द्रष्टुकामः प्रतीक्षेऽहं भगवन्तं निशाकरम्॥ १३॥ अथापश्यामदूरस्थमृषिं ज्वलिततेजसम्। कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम्॥ १४॥ तमृक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः। परिवार्योपगच्छन्ति धातारं प्राणिनो यथा॥ १५॥ ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः। प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम्॥ १६॥ ऋषिस्तु दृष्ट्वा मां प्रीतः प्रविष्टश्चाश्रमं पुनः। मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत॥ १७॥ सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते। अग्निदग्धाविमौ पक्षौ त्वक्चैव व्रणिता तव॥ १८॥ गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे। गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ॥ १९॥ ज्येष्ठो हि त्वं तु सम्पाते जटायुरनुजस्तव। मानुषं रूपमास्थाय गृह्णीतां चरणौ मम॥ २०॥ किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम्। दण्डो वायं कृतः केन सर्वमाख्याहि पृच्छतः॥ २१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे संपातिपुरावृत्तवर्णनं नाम षष्ठितमः सर्गः ॥४-६०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध