ततस्तद् दारुणं कर्म दुष्करं सहसात् कृतम्। आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा॥ १॥ भगवन् व्रणयुक्तत्वाल्लज्जया व्याकुलेन्द्रियः। परिश्रान्तो न शक्नोमि वचनं प्रतिभाषितुम्॥ २॥ अहं चैव जटायुश्च सङ्घर्षाद् दर्पमोहितौ। आकाशं पतितौ दूरौ जिज्ञासन्तौ पराक्रमम्॥ ३॥ कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम्। रविः स्यादनुयातव्यो यावदस्तं महागिरिम्॥ ४॥ अथावां युगपत् प्राप्तावपश्याव महीतले। रथचक्रप्रमाणानि नगराणि पृथक् पृथक्॥ ५॥ क्वचिद् वादित्रघोषांश्च ब्रह्मखोषांश्च शुश्रुवः। गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः॥ ६॥ तूर्णमुत्पत्य चाकाशमादित्यपथमाश्रितौ। आवामालोकयावस्तद् वनं शाद्वलसंस्थितम्॥ ७॥ उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः। आपगाभिंश्च संवीता सूत्रैरिव वसुन्धरा॥ ८॥ हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः। भूतले सम्प्रकाशन्ते नागा इव जलाशये॥ ९॥ तीव्रः स्वेदश्च खेदश्च भयं चासीत् तदावयोः। समाविशति मोहश्च ततो मूर्छा च दारुणा॥ १०॥ न दिग्विज्ञायते याम्या न चाग्नेयी न च वारुणी। युगान्ते नियतो लोको हतो दग्ध इवाग्निना॥ ११॥ मनश्च मे हतं भूयः संनिवर्त्य तु संश्रयम्। यत्नेन महता ह्यस्मिन् पुनः संधाय चक्षुषी॥ १२॥ यत्नेन महता भूयो रविः समलोकितः। तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ॥ १३॥ जटायुर्मामनापृच्छ्य निपपात महीं ततः। तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम्॥ १४॥ पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यत। प्रमादात् तत्र निर्दग्धः पतन् वायुपथादहम्॥ १५॥ आशङ्के तं निपतितं जनस्थाने जटायुषम्। अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः॥ १६॥ राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च। सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद् गिरेः॥ १७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे सूर्यानुगमनाख्यानं नाम एकषष्ठितमः सर्गः ॥४-६१॥