home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

षट्षष्ठितमः सर्गः ॥४-६६॥

॥हनूमद्बलसंधुक्षणम्॥

[ हनुमदुत्पत्तिकथां श्रावयित्वा जाम्बवता समुद्र- लङ्घनाय तस्य प्रोत्साहनम् ]

अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम्। जाम्बवान् समुदीक्ष्यैवं हनूमन्तमथाब्रवीत्॥ १॥ वीर वानरलोकस्य सर्वशास्त्रविशारद। तूष्णीमेकान्तमाश्रित्य हनुमन् किं न जल्पसि॥ २॥ हनूमन् हरिराजस्य सुग्रीवस्य समो ह्यसि। रामलक्ष्मणयोश्चापि तेजसा च बलेन च॥ ३॥ अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः। गरुत्मानिति विख्यात उत्तमः सर्वपक्षिणाम्॥ ४॥ बहुशो हि मया दृष्टः सागरे स महाबलः। भुजङ्गानुद्धरन् पक्षी महावेगो महायशाः॥ ५॥ पक्षयोर्यद् बलं तस्य तावदभुजबलं तव। विक्रमश्चापि वेगश्च न ते तेनापहीयते॥ ६॥ बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुङ्गव। विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे॥ ७॥ असीदप्सरासां श्रेष्ठा विख्याता पुञ्जिकस्थला। अञ्जनेति परिख्याता पत्नी केसरिणो हरेः॥ ८॥ विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि। अभिशापादभूत् तात वानरी कामरूपिणी॥ ९॥ दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः। कपित्वे चारुसर्वाङ्गी कदाचित् कामरूपिणी॥ १०॥ मानुषं विग्रहं कृत्वा रूपयौवनशालिनी। विचित्रमाल्याभरणा महार्हक्षौमवासिनी॥ १०॥ अचरत् पर्वतस्याग्रे प्रावृडम्बुदसंनिभे। तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम्॥ ११॥ स्थितायाः पर्वतस्याग्रे मारुतोऽपाहरच्छनैः। स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ॥ १२॥ स्तनौ च पीनौ सहितौ सुजातं चारु चाननम्। तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम्॥ १३॥ दृष्ट्वैव शुभसर्वाङ्गीं पवनः काममोहितः। स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः॥ १४॥ मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम्। सा तु तत्रैव सम्भ्रान्ता सुव्रता वाक्यमब्रवीत्॥ १५॥ एकपत्नीव्रतमिदं को नाशयितुमिच्छति। अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत॥ १६॥ न त्वां हिंसामि सुश्रोणि मा भूत् ते सुभगे भयम्। मरुतोऽस्मि गतो यत् त्वां परिष्वज्य यशस्विनीम्॥ १७॥ वीर्यवान् बुद्धिसम्पन्नस्तव पुत्रो भविष्यति। महासत्त्वो महातेजा महाबलपराक्रमः॥ १८॥ लङ्घने प्लवने चैव भविष्यति मया समः। एवमुक्ता ततस्तुष्टा जननी ते महाकपे॥ २०॥ गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभ। अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने॥ २१॥ फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्घतो दिवम्। शतानि त्रीणि गत्वाऽथ योजनानां महाकपे॥ २२॥ तेजसा तस्य निर्धूतो न विषादं गतस्ततः। तावदापततस्तूर्णमन्तरिक्षं महाकपे॥ २३॥ क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता। तदा शैलाग्रशिखरे वामो हनुरभज्यत॥ २४॥ ततो हि नामधेयं ते हनुमानिति कीर्त्यते। ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम्॥ २५॥ त्रैलोक्यं भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः। सम्भ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति॥ २६॥ प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः। प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ॥ २७॥ अशस्त्रवध्यतां तात समरे सत्यविक्रम। वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च॥ २८॥ सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम्। स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो॥ २९॥ स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः। मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः॥ ३०॥ ईद्य्शस्य च ते तात वर्णयामः कथं बलम्। कार्यं चालोकसामान्यं कर्तुं शक्तस्त्वमेव हि॥ ३१॥ भवाञ्जीवातुरस्माकमञ्जनागर्भसंभव। त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः॥ ३२॥ वयमद्य गतप्राणा भवान्नस्त्रातु साम्प्रतम्। दाक्ष्यविक्रमसम्पन्नः कपिराज इवापरः॥ ३३॥ त्रिविक्रमे मया तात सशैलवनकानना। त्रिःसप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम्॥ ३४॥ तथा चौषधयोऽस्माभिः संचिता देवशासनात्। निष्पन्नममृतं याभिस्तदासीन्नो महद‍्बलम्॥ ३५॥ स इदानीमहं वृद्धः परिहीनपराक्रमः। साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः॥ ३६॥ तद् विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि। त्वद्वीर्यं द्रष्टुकामेयं सर्ववानरवाहिनी॥ ३७॥ उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम्। परा हि सर्वभूतानां हनुमन् या गतिस्तव॥ ३८॥ विषण्णा हरयः सर्वे हनुमन् किमुपेक्षसे। विक्रमस्व महावेगो विष्णुस्त्रीन् विक्रमानिव॥ ३९॥ ततस्तु वै जाम्बवता प्रचोदितः प्रतीतवेगः पवनात्मजः कपिः। प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा॥ ४०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे हनूमद्बलसंधुक्षणम् नाम षट्षष्ठितमः सर्गः ॥४-६६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध