home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
किष्किन्धाकाण्डम्

सप्तषष्ठितमः सर्गः ॥४-६७॥

॥लङ्घनावष्टम्भः॥

[ हनुमता समुद्रं लङ्घयितुमुत्साहस्य प्रकाशनं जाम्बवता तस्य प्रशंसनं वेगेनोत्प्लवनाय हनुमतो महेन्द्रपर्वत आरोहणम् ]

संस्तूयमानो हनुमान् व्यवर्धत महाबलः। समाविद्ध्य च लाङ्गूलं हर्षाच्च बलमुपेयिवान्॥ १॥ तस्य संस्तूयमानस्य वृद्धैर्वानरपुङ्गवैः। तेजसापूर्यमाणस्य रूपमासीदनुत्तमम्॥ २॥ यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे। मारुतस्यौरसः पुत्रस्तथा सम्प्रति जृम्भते॥ ३॥ तं दृष्ट्वा जृम्भमाणं ते क्रमितुं शतयोजनम्। वेर्येणापूर्यमाणं च सहसा वानरोत्तमाः॥ ४॥ सहसा शोकमुत्सृज्य प्रहर्षेण समन्विताः। विनेदुस्तुष्टुवुश्चापि हनूमन्तं महाबलम्॥ ५॥ प्रहृष्टा विस्मिताश्चापि ते वीक्षन्ते समन्ततः। त्रिविक्रमकृतोत्साहं नारायणमिव प्रजाः॥ ६॥ अशोभत मुखं तस्य जृम्भमाणस्य धीमतः। अम्बरीषमिवादीप्तं विधूम इव पावकः॥ ७॥ हरीणामुत्थितो मध्यात् सम्प्रहृष्टतनूरुहः। अभिवाद्य हरीन् वृद्धान् हनूमानिदमब्रवीत्॥ ८॥ आरुजन् पर्वताग्राणि हुताशनसखोऽनिलः। बलवानप्रमेयश्च वायुराकाशगोचरः॥ ९॥ तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः। मारुतस्यौरसः पुत्रः प्लवने नास्मि तत्समः॥ १०॥ उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्। मेरुं गिरिमसङ्गेन परिगन्तुं सहस्रशः॥ ११॥ बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे। समाप्लावयितुं लोकं सपर्वतनदीह्रदम्॥ १२॥ ममोरुजङ्घावेगेन भविष्यति समुत्थितः। समुच्छ्रितमहाग्राहः समुद्रो वरुणालयः॥ १३॥ पन्नगाशनमाकाशे पतन्तं पक्षिसेविते। वैनतेयमहं शक्तः परिगन्तुं सहस्रशः॥ १४॥ उदयात् प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम्। अनस्तमितमादित्यमभिगन्तुं समुत्सहे॥ १५॥ ततो भूमिमसंस्पृष्ट्वा पुनरागन्तुमुत्सहे। प्रवेगेनैव महता भीमेन प्लवगर्षभाः॥ १६॥ उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान्। सागरं क्षोभषयिष्यामि दारयिष्यामि मेदिनीम्॥ १७॥ पर्वतान् कम्पयिष्यामि प्लवमानः प्लवङ्गमः। हरिष्याम्युरुवेगेन प्लवमानो महार्णवम्॥ १८॥ लतानां विविधं पुष्पं पादपानां च सर्वशः। अनुयास्यति मामद्य प्लवमानं विहायसा॥ १९॥ भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे। चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव वा॥ २०॥ द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः। महामेघप्रतीकाशं मां द्रक्ष्यथ वानराः॥ २१॥ दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम्। विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान्॥ २२॥ सागरं क्षोभयिष्यामि प्लवमानः समाहितः। वैनतेयस्य सा शक्तिर्मम वा मारुतस्य वा॥ २३॥ ऋते सुपर्णराजानं मारुतं वा महाजवम्। न तद् भूतं प्रपश्यामि यन्मां प्लुतमनुव्रजेत्॥ २४॥ निमेषान्तरमात्रेण निरालम्बनमम्बरम्। सहसा निपतिष्यामि घनाद् विद्युदिवोत्थिता॥ २५॥ भविष्यति हि मे रूपं प्लवमानस्य सागरे। विष्णोर्विक्रममाणस्य पुरा त्रीन् विक्रमानिव॥ २६॥ बुद्‍ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा। अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवङ्गमाः॥ २७॥ मारुतस्य समो वेगे गरुडस्य समो जवे। अयुतं योजनानां तु गमिष्यामीति मे मतिः॥ २८॥ वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः। विक्रम्य सहसा हस्तादमृतं तदिहानये॥ २९॥ लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः। तमेवं वानरश्रेष्ठं गर्जन्तममितौजसम्॥ ३०॥ प्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताः। तस्य तद्वचनं श्रुत्वा ज्ञातीनां शोकनाशनम्॥ ३१॥ उवाच परिसंहृष्टो जाम्बवान् हरिसत्तमम्। वीर केसरिणः पुत्र हनुमन् मारुतात्मज॥ ३२॥ ज्ञातीनां विपुलः शोकस्त्वया तात प्रणाशितः। तव कल्याणरुचयः कपिमुख्याः समागताः॥ ३३॥ मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः। ऋषीणां च प्रसादेन कपिवृद्धमतेन च॥ ३४॥ गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम्। स्थास्यामश्चैकपादेन यावदागमनं तव॥ ३५॥ त्वद‍्गतानि च सर्वेषां जीवितानि वनौकसाम्। ततस्तु हरिशार्दूलस्तानुवाच वनौकसः॥ ३६॥ नेयं मम मही वेगं लङ्घने धारयिष्यति। एतानीह नगस्यास्य शिलासंकटशालिनः॥ ३७॥ शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च। एषु वेगं गमिष्यामि महेन्द्रशिखरेष्वहम्॥ ३८॥ नानाद्रुमविकीर्णेषु धातुनिष्यन्दशोभिषु। एतानि मम निष्पेषं पादयोः प्लवतां वराः॥ ३९॥ प्लवतो धारयिष्यन्ति योजनानामितः शतम्। ततस्तं मारुतप्रख्यः स हरिर्मारुतात्मजः॥ ४०॥ आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम्॥ ४१॥ लताकुसुमसम्बाधं नित्यपुष्पफलद्रुमम् सिंहशार्दूलचरितं मत्तमातङ्गसेवितम्॥ ४२॥ मत्तद्विजगणोद‍्घुष्टं सलिलोत्पीडसंकुलम् महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः॥ ४३॥ विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः। पादाभ्यां पीडितस्तेन महाशैलो महात्मना॥ ४४॥ ररास सिंहाभिहतो महान् मत्त इव द्विपः। मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः॥ ४५॥ वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः। नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः॥ ४६॥ उत्पतद्भिश्च विहगैर्विद्याधरगणैरपि। त्यज्यमानमहासानुः संनिलीनमहोरगः॥ ४७॥ चलशृङ्गशिलोद्घातस्तदाभूत् स महागिरिः। निःश्वसद्भिस्तदार्तैस्तु भुजङ्गैरर्धनिःसृतैः॥ ४८॥ सपताक इवाभाति स तदा धरणीधरः। ऋषिभिस्त्राससम्भ्रान्तैस्त्यज्यमानशिलोच्चयः। सीदन् महति कान्तारे सार्थहीन इवाध्वगः॥ ४९॥ स वेगवान् वेगसमाहितात्मा हरिप्रवीरः परवीरहन्ता। मनः समाधाय महानुभावो जगाम लङ्कां मनसा मनस्वी॥ ५०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुत्विंशतिसहस्त्रिकायां संहितायाम् सुन्दरकाण्डे लङ्घनावष्टम्भो नमा सप्तषष्ठितमः सर्गः ॥४-६७॥

॥श्रीमद्वाल्मीकिरामायणे किष्किन्धाकाण्डः संपूर्णः॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध