सूत उवाच रामायणस्य माहात्म्यं श्रुत्वा प्रीतो मुनीश्वरः। सनत्कुमारः पप्रच्छ नारदं मुनिसत्तमम्॥ १ सनत्कुमार उवाच रामायणस्य माहात्म्यं कथितं वै मुनीश्वर। इदानीं श्रोतुमिच्छामि विधिं रामायणस्य च॥२ एतच्चापि महाभाग मुने तत्त्वार्थकोविद। कृपया परयाविष्टो यथावद् वक्तुमर्हसि॥३ नारद उवाच रामायणविधिं चैव शृणुध्वं सुसमाहिताः। सर्वलोकेषु विख्यातं स्वर्गमोक्षविवर्धनम्॥४ विधानं तस्य वक्ष्यामि शृणुध्वं गदतो मम। रामायणकथां कुर्वन् भक्तिभावेन भावितः॥५ येन चीर्णेन पापानां कोटिकोटिः प्रणश्यति। चैत्रे माघे कार्त्तिके च पञ्चम्यामथवाऽऽरभेत्॥६ संकल्पं तु ततः कुर्यात् स्वस्तिवाचनपूर्वकम्। अहोभिर्नवभिः श्राव्यं रामायणकथामृतम्॥७ अद्य प्रभृत्यहं राम शृणोमि त्वत्कथामृतम्। प्रत्यहं पूर्णतामेतु तव राम प्रसादतः॥८ प्रत्यहं दन्तशुद्धिं च अपामार्गस्य शाखया। कृत्वा स्नायीत विधिवद् रामभक्तिपरायणः॥९ स्वयं च बन्धुभिः सार्द्धं शृणुयात् प्रयतेन्द्रियः। स्नानं कृत्वा यथाचारं दन्तधावनपूर्वकम्॥१० शुक्लाम्बरधरः शुद्धो गृहमागत्य वाग्यतः। प्रक्षाल्य पादावाचम्य स्मरेन्नारायणं प्रभुम्॥११ नित्यं देवार्चनं कृत्वा पश्चात् संकल्पपूर्वकम्। रामायणपुस्तकं च अर्चयेद् भक्तिभावतः॥१२ आवाहनासनाद्यैश्च गन्धपुष्पादिभिर्व्रती। ॐ नमो नारायणायेति पूजयेद् भक्तितत्परः॥१३ एकवारं द्विवारं वा त्रिवारं वापि शक्तितः। होमं कुर्यात् प्रयत्नेन सर्वपापनिवृत्तये॥ १४ एवं यः प्रयतः कुर्याद् रामायणविधिं तथा। स याति विष्णुभवनं पुनरावृत्तिदुर्लभम्॥१५ रामायणव्रतधरो धर्मकारी च सत्तमः । चाण्डालं पतितं वापि वस्त्रान्नेनापि नार्चयेत्॥१६ नास्तिकान् भिन्नमर्यादान् निन्दकान् पिशुनानपि। रामायणव्रतपरो वाङ्मात्रेणापि नार्चयेत्॥ १७ कुण्डाशिनं गायकं च तथा देवलकाशनम्। भिषजं काव्यकर्तारं देवद्विजविरोधिनम्॥ १८ परस्त्रीनिरतं चैव परान्नलोलुपं तथा। रामायणव्रतपरो वाङ्मात्रेणापि नार्चयेत्॥ १९ इत्येवमादिभिः शुद्धो वशी सर्वहिते रतः। रामायणपरो भूत्वा परां सिद्धिं गमिष्यति॥ २० नास्ति गङ्गासमं तीर्थं नास्ति मातृसमो गुरुः। नास्ति विष्णुसमो देवो नास्ति रामायणात् परम्॥ २१ नास्ति वेदसमं शास्त्रं नास्ति शान्तिसमं सुखम्। नास्ति शान्तिपरं ज्योतिर्नास्ति रामायणात् परम्॥ २२ नास्ति क्षमासमं सारं नास्ति कीर्तिसमं धनम्। नास्ति ज्ञानसमो लाभो नास्ति रामायणात् परम्॥ २३ तदन्ते वेदविदुषे गां दद्याच्च सदक्षिणाम्। रामायणं पुस्तकं च वस्त्रालंकरणादिकम्॥ २४ रामायणपुस्तकं यो वाचकाय प्रयच्छति। स याति विष्णुभवनं यत्र गत्वा न शोचति॥ २५ नवाहजफलं कर्तुः शृणु धर्मविदां वर। पञ्चम्यां तु समारभ्य रामायणकथामृतम्॥ २६ कथाश्रवणमात्रेण सर्वपापैः प्रमुच्यते। यदि द्वयं कृतं तस्य पुण्डरीकफलं लभेत्॥ २७ व्रतधारी तु श्रवणं यः कुर्यात् स जितेन्द्रियः। अश्वमेधस्य यज्ञस्य द्विगुणं फलमश्नुते॥ २८ चतुः कृत्वः श्रुतं येन कथितं मुनिसत्तमाः। स लभेत् परमं पुण्यमग्निष्टोमाष्टसम्भवम्॥ २९ पञ्चकृत्वो व्रतमिदं कृतं येन महात्मना। अत्यग्निष्टोमजं पुण्यं द्विगुणं प्राप्नुयान्नरः॥ ३० एवं व्रतं च षड्वारं कुर्याद् यस्तु समाहितः। अग्निष्टोमस्य यज्ञस्य फलमष्टगुणं लभेत्॥ ३१ नारी वा पुरुषः कुर्यादष्टकृत्वो मुनीश्वराः। नरमेधस्य यज्ञस्य फलं पञ्चगुणं लभेत्॥ ३२ नरो वाप्यथ नारी वा नववारं समाचरेत्। गोमेधसवजं पुण्यं स लभेत् त्रिगुणं नरः॥ ३३ रामायणं तु यः कुर्याच्छान्तात्मा प्रयतेन्द्रियः। स याति परमानन्दं यत्र गत्वा न शोचति॥ ३४ रामायणपरो नित्यं गङ्गास्नानपरायणः। धर्ममार्गप्रवक्तारो मुक्ता एवं न संशयः॥ ३५ यतीनां ब्रह्मचारिणां प्रवीराणां च सत्तमाः। नवाह्ना किल श्रोतव्या कथा रामायणस्य च॥ ३६ श्रुत्वा नरो रामकथामतिदीप्तोऽतिभक्तितः। ब्रह्मणः पदमासाद्य तत्रैव परिमोदते॥ ३७ तस्माच्छृणुध्वं विप्रेन्द्रा रामायणकथामृतम्। श्रोतॄणां च परं श्राव्यं पवित्राणामनुत्तमम्॥ ३८ दुःस्वप्ननाशनं धन्यं श्रोतव्यं च प्रयत्नतः । नरोऽत्र श्रद्धया युक्तः श्लोकं श्लोकार्द्धमेव च॥ ३९ पठते मुच्यते सद्यो ह्युपपातककोटिभिः। सतामेव प्रयोक्तव्यं गुह्याद्गुह्यतमं तु यत्॥ ४० वाचयेद् रामभवने पुण्यक्षेत्रे च संसदि। ब्रह्मद्वेषरतानां च दम्भाचाररतात्मनाम्॥ ४१ लोकवञ्चकवृत्तीनां न ब्रूयादिदमुत्तमम्। त्यक्तकामादिदोषाणां रामभक्तिरतात्मनाम्॥ ४२ गुरुभक्तिरतानां च वक्तव्यं मोक्षसाधनम्। सर्वदेवमयो रामः स्मृतश्चार्त्तिप्रणाशनः॥ ४३ सद्भक्तवत्सलो देवो भक्त्या तुष्यति नान्यथा। अवशेनापि यन्नाम्नि कीर्तिते वा स्मृतेऽपि वा॥ ४४ विमुक्तपातकः सोऽपि परमं पदमश्नुते । संसारघोरकान्तारदावाग्निर्मधुसूदनः। ४५ स्मर्तॄणां सर्वपापानि नाशयत्याशु सत्तमाः। तदर्थकमिदं पुण्यं काव्यं श्राव्यमनुत्तमम्॥ ४६ श्रवणात् पठनाद् वापि सर्वपापविनाशकृत्। यस्य रामरसे प्रीतिर्वर्तते भक्तिसंयुता॥ ४७ स एव कृतकृत्यश्च सर्वशास्त्रार्थकोविदः। तदर्जितं तपः पुण्यं तत्सत्यं सफलं द्विजाः॥ ४८ यदर्थश्रवणे प्रीतिरन्यथा न हि वर्तते। रामायणपरा ये तु रामनामपरायणाः॥ ४९ त एव कृतकृत्याश्च घोरे कलियुगे द्विजाः। नवाह्ना किल श्रोतव्यं रामायणकथामृतम्॥ ५० ते कृतज्ञा महात्मानस्तेभ्यो नित्यं नमो नमः। रामनामैव नामैव नामैव मम जीवनम्॥ ५१ कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा। सूत उवाच एवं सनत्कुमारस्तु नारदेन महात्मना॥ ५२ सम्यक् प्रबोधितः सद्यः परां निर्वृतिमाप ह। तस्माच्छृणुध्वं विप्रेन्द्रा रामायणकथामृतम्॥ ५३ नवाह्ना किल श्रोतव्यं सर्वपापैः प्रमुच्यते । श्रुत्वा चैतन्महाकाव्यं वाचकं यस्तु पूजयेत्॥ ५४ तस्य विष्णुः प्रसन्नः स्याच्छ्रिया सह द्विजोत्तमाः। वाचके प्रीतिमापन्ने ब्रह्मविष्णुमहेश्वराः॥ ५५ प्रीता भवन्ति विप्रेन्द्रा नात्र कार्या विचारणा। रामायणवाचकाय गावो वासांसि काञ्चनम्॥ ५६ रामायणपुस्तकं च दद्याद् वित्तानुसारतः। तस्य पुण्यफलं वक्ष्ये शृणुध्वं सुसमाहिताः॥ ५७ न बाधन्ते ग्रहास्तस्य भूतवेतालकादयः। तस्यैव सर्वश्रेयांसि वर्द्धन्ते चरिते श्रुते॥ ५८ न चाग्निर्बाधते तस्य न चौरादिभयं तथा। एतज्जन्मार्जितैः पापैः सद्य एव विमुच्यते॥ ५९ सप्तवंशसमेतस्तु देहान्ते मोक्षमाप्नुयात्। इत्येतद्वः समाख्यातं नारदेन प्रभाषितम्॥ ६० सनत्कुमारमुनये पृच्छते भक्तितः पुरा । रामायणमादिकाव्यं सर्ववेदार्थसम्मतम्॥ ६१ सर्वपापहरं पुण्यं सर्वदुःखनिबर्हणम्। समस्त पुण्यफलदं सर्वयज्ञफलप्रदम्॥ ६२ ये पठन्त्यत्र विबुधाः श्लोकं श्लोकार्द्धमेव च। न तेषां पापबन्धस्तु कदाचिदपि जायते॥ ६३ रामार्पितमिदं पुण्यं काव्यं तु सर्वकामदम्। भक्त्या शृण्वन्ति विदन्ति तेषां पुण्यफलं शृणु॥ ६४ शतजन्मार्जितैः पापैः सद्य एव विमोचिताः । सहस्त्रकुलसंयुक्तैः प्रयान्ति परमं पदम्॥ ६५ किं तीर्थैर्गोप्रदानैर्वा किं तपोभिः किमध्वरैः। अहन्यहनि रामस्य कीर्तनं परिशृण्वताम्॥ ६६ चैत्रे माघे कार्तिके च रामायणकथामृतम्। नवैरहोभिः श्रोतव्यं रामायणकथामृतम्। ६७ रामप्रसादजनकं रामभक्तिविवर्धनम् । सर्वपापक्षयकरं सर्वसम्पद्विवर्द्धनम्॥ ६८ यस्त्वेतच्छृणुयाद् वापि पठेद् वा सुसमाहितः। सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति॥ ६९
[ इति श्रीस्कन्दपुराणे उत्तरखण्डे नारदसनत्कुमारसंवादे रामायणमाहात्म्ये नवाहश्रवणफलानुकीर्तनं नाम पञ्चमोऽध्यायः ॥ ५ ॥ ]