home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat


श्रीमद्वाल्मीकीरामायणम्
श्रीमद्वाल्मीकीयरामायणमाहात्म्यम्


॥ श्रीसीतारामचन्द्राभ्यां नमः ॥

श्रीमद्वाल्मीकीयरामायणमाहात्म्यम्
चतुर्थोऽध्यायः

[ चैत्रमासे रामायणपठनश्रवणमाहात्म्यं कलिकाख्यव्याधस्योत्तङ्कमुनेश्च कथा ]

नारद उवाच अन्यमासं प्रवक्ष्यामि शृणुध्वं सुसमाहिताः। सर्वपापहरं पुण्यं सर्वदुःखनिबर्हणम्॥ १ ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषिताम्। समस्तकामफलदं सर्वव्रतफलप्रदम्॥ २ दुःस्वप्ननाशनं धन्यं भुक्तिमुक्तिफलप्रदम्। रामायणस्य माहात्म्यं श्रोतव्यं च प्रयत्नतः॥३ अत्रैवोदाहरन्तीममितिहासं पुरातनम्। पठतां शृण्वतां चैव सर्वपापप्रणाशनम्॥४ आसीत् पुरा कलियुगे कलिको नाम लुब्धकः । परदारपरद्रव्यहरणे सततं रतः॥५ परनिन्दापरो नित्यं जन्तुपीडाकरस्तथा। हतवान् ब्राह्मणान् गावः शतशोऽथ सहस्त्रशः॥६ देवस्वहरणे नित्यं परस्वहरणे तथा। तेन पापान्यनेकानि कृतानि सुमहान्ति च॥७ न तेषां शक्यते वक्तुं संख्या वत्सरकोटिभिः। स कदाचिन्महापापो जन्तूनामन्तकोपमः॥८ सौवीरनगरं प्राप्तः सर्वैश्वर्यसमन्वितम्। योषिद्भिर्भूषिताभिश्च सरोभिर्विमलोदकैः॥९ अलंकृतं विपणिभिर्ययौ देवपुरोपमम्। तस्योपवनमध्यस्थं रम्यं केशवमन्दिरम्॥१० छादितं हेमकलशैर्दृष्ट्वा व्याधो मुदं ययौ। हराम्यत्र सुवर्णानि बहूनीति विनिश्चितः॥११ जगाम रामभवनं कीनाशश्चौर्यलोलुपः। तत्रापश्यद् द्विजवरं शान्तं तत्त्वार्थकोविदम्॥१२ परिचर्यापरं विष्णोरुत्तङ्कं तपसां निधिम्। एकाकिनं दयालुं च निःस्पृहं ध्यानलोलुपम्॥१३ दृष्ट्वासौ लुब्धको मेने तं चौर्यस्यान्तरायिणम्। देवस्य द्रव्यजातं तु समादाय महानिशि॥१४ उत्तङ्कं हन्तुमारेभे उद्यतासिर्मदोद्धतः। पादेनाक्रम्य तद्वक्षो गलं संगृह्य पाणिना॥१५ हन्तुं कृतमतिं व्याधं उत्तङ्को प्रेक्ष्य चाब्रवीत्। उत्तङ्क उवाच भो भोः साधो वृथा मां त्वं हनिष्यसि निरागसम्॥ १६ मया किमपराद्धं तद् वद त्वं च लुब्धक। कृतापराधिनो लोके हिंसां कुर्वन्ति यत्नतः॥१७ न हिंसन्ति वृथा सौम्य सज्जना अप्यपापिनम्। विरोधिष्वपि मूर्खेषु निरीक्ष्यावस्थितान् गुणान्॥ १८ विरोधं नाधिगच्छन्ति सज्जनाः शान्तचेतसः। बहुधा वाच्यमानोऽपि यो नरः क्षमयान्वितः॥१९ तमुत्तमं नरं प्राहुर्विष्णोः प्रियतरं तथा॥२० सुजनो न याति वैरं परहितनिरतो विनाशकालेऽपि। छेदेऽपि चन्दनतरुः सुरभीकरोति मुखं कुठारस्य॥२१ अहो विधिर्वै बलवान् बाधते बहुधा जनान्। सर्वसङ्गविहीनोऽपि बाध्यते तु दुरात्मना॥२२ अहो निष्कारणं लोके बाधन्ते दुर्जना जनान्। धीवराः पिशुना व्याधा लोकेऽकारणवैरिणः॥ २३ अहो बलवती माया मोहयत्यखिलं जगत्। पुत्रमित्रकलत्राद्यैः सर्वदुःखेन योज्यते॥२४ परद्रव्यापहारेण कलत्रं पोषितं च यत्। अन्ते तत् सर्वमुत्सृज्य एक एव प्रयाति वै॥२५ मम माता मम पिता मम भार्या ममात्मजाः। ममेदमिति जन्तूनां ममता बाधते वृथा॥२६ यावदर्पयति द्रव्यं तावद् भवति बान्धवः। अर्जितं तु धनं सर्वे भुञ्जन्ते बान्धवाः सदा॥२७ दुःखमेकतमो मूढस्तत्पापफलमश्रुते। इति ब्रुवाणं तमृषिं विमृश्य भयविह्वलः॥२८ कलिकः प्राञ्जलिः प्राह क्षमस्वेति पुनः पुनः। तत्सङ्गस्य प्रभावेण हरिसंनिधिमात्रतः॥२९ गतपापो लुब्धकश्च सानुतापोऽभवद् ध्रुवम्। मया कृतानि पापानि महान्ति सुबहूनि च॥३० तानि सर्वाणि नष्टानि विप्रेन्द्र तव दर्शनात्। अहं वै पापधीर्नित्यं महापापं समाचरम्॥३१ कथं मे निष्कृतिर्भूयात् कं यामि शरणं विभो। पूर्वजन्मार्जितै: पापैर्लुब्धकत्वमवाप्तवान्॥३२ अत्रापि पापजालानि कृत्वा कां गतिमाप्नुयाम्। इति वाक्यं समाकर्ण्य कलिकस्य महात्मनः॥३३ उत्तङ्को नाम विप्रर्षिरिदं वाक्यमथाब्रवीत् । उत्तङ्क उवाच साधु साधु महाप्राज्ञ मतिस्ते विमलोज्ज्वला॥३४ यस्मात् संसारदुःखानां नाशोपायमभीप्ससि। चैत्रे मासि सिते पक्षे कथा रामायणस्य च॥३५ नवाह्ना किल श्रोतव्या भक्तिभावेन सादरम्। यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते॥३६ तस्मिन् क्षणेऽसौ कलिको लुब्धको वीतकल्मषः। रामायणकथां श्रुत्वा सद्यः पञ्चत्वमागतः॥ ३७ उत्तङ्कः पतितं वीक्ष्य लुब्धकं तं दयापरः। एतद् दृष्ट्वा विस्मितश्च अस्तौषीत् कमलापतिम्॥३८ कथां रामायणस्यापि श्रुत्वा च वीतकल्मषः। दिव्यं विमानमारुह्य मुनिमेतदथाब्रवीत्॥ ३९ विमुक्तस्त्वत्प्रसादेन महापातकसंकटात्। तस्मान्नतोऽस्मि ते विद्वन् यत् कृतं तत् क्षमस्व मे॥४० सूत उवाच इत्युक्त्वा देवकुसुमैर्मुनिश्रेष्ठमवाकिरत्। प्रदक्षिणात्रयं कृत्वा नमस्कारं चकार ह॥४१ ततो विमानमारुह्य सर्वकामसमन्वितम्। अप्सरोगणसंकीर्णं प्रपेदे हरिमन्दिरम्॥४२ तस्माच्छृणुध्वं विप्रेन्द्राः कथां रामायणस्य च। चैत्रे मासि सिते पक्षे श्रोतव्यं च प्रयत्नतः॥४३ नवाह्ना किल रामस्य रामायणकथामृतम्। तस्मादृतुषु सर्वेषु हितकृद्धरिपूजकः॥ ४४ ईप्सितं मनसा यद्यत् तदाप्नोति न संशयः। सनत्कुमार यत् पृष्टं तत् सर्वं गदितं मया॥४५ रामायणस्य माहात्म्यं किमन्यच्छ्रोतुमिच्छसि॥४६

[ इति श्रीस्कन्दपुराणे उत्तरखण्डे नारद- सनत्कुमारसंवादे रामायणमाहात्म्ये चैत्रमासफलानुकीर्तनं नाम चतुर्थोऽध्यायः ॥ ४ ॥ ]


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध