सनत्कुमार उवाच अहो विप्र इदं प्रोक्तमितिहासं च नारद। रामायणस्य माहात्म्यं त्वं पुनर्वद विस्तरात्॥ १ अन्यमासस्य माहात्म्यं कथयस्व प्रसादतः। कस्य नो जायते तुष्टिर्मुने त्वद्वचनामृतात्॥ २ नारद उवाच सर्वे यूयं महाभागाः कृतार्था नात्र संशयः। यतः प्रभावं रामस्य भक्तितः श्रोतुमुद्यताः॥ ३ माहात्म्यश्रवणं यस्य राघवस्य कृतात्मनाम्। दुर्लभं प्राहुरत्यन्तं मुनयो ब्रह्मवादिनः॥ ४ शृणुध्वमृषयश्चित्रमितिहासं पुरातनम्। सर्वपापप्रशमनं सर्वरोगविनाशनम्॥ ५ आसीत् पुरा द्वापरे च सुमतिर्नाम भूपतिः। सोमवंशोद्भवः श्रीमान् सप्तद्वीपैकनायकः॥ ६ धर्मात्मा सत्यसम्पन्नः सर्वसम्पद्विभूषितः। सदा रामकथासेवी रामपूजापरायणः॥ ७ रामपूजापराणां च शुश्रूषुरनहंकृतिः। पूज्येषु पूजानिरतः समदर्शी गुणान्वितः॥ ८ सर्वभूतहितः शान्तः कृतज्ञः कीर्त्तिमान् नृपः। तस्य भार्या महाभागा सर्वलक्षणसंयुता॥ ९ पतिव्रता पतिप्राणा नाम्ना सत्यवती श्रुता। तावुभौ दम्पती नित्यं रामायणपरायणौ॥ १० अन्नदानरतौ नित्यं जलदानपरायणौ। तडागारामवाप्यादीनसंख्यातान् वितेनतुः॥ ११ सोऽपि राजा महाभागो रामायणपरायणः। वाचयेच्छृणुयाद् वापि भक्तिभावेन भावितः॥ १२ एवं रामपरं नित्यं राजानं धर्मकोविदम्। तस्य प्रियां सत्यवतीं देवा अपि सदास्तुवन्॥ १३ विश्रुतौ त्रिषु लोकेषु दम्पती तौ हि धार्मिकौ। आययौ बहुभिः शिष्यैर्द्रष्टुकामो विभाण्डकः॥ १४ विभाण्डकं मुनिं दृष्ट्वा सुखमाप्तो जनेश्वरः। प्रत्युद्ययौ सपत्नीकः पूजाभिर्बहुविस्तरम्॥ १५ कृतातिथ्यक्रियं शान्तं कृतासनपरिग्रहम्। निजासनगतो भूपः प्राञ्जलिर्मुनिमब्रवीत्॥ १६ राजोवाच भगवन् कृतकृत्योऽद्य त्वदभ्यागमनेन भोः। सतामागमनं सन्तः प्रशंसन्ति सुखावहम्॥ १७ यत्र स्यान्महतां प्रेम तत्र स्युः सर्वसम्पदः। तेजः कीर्तिर्धनं पुत्र इति प्राहुर्विपश्चितः॥ १८ तत्र वृद्धिं गमिष्यन्ति श्रेयांस्यनुदिनं मुने। यत्र सन्तः प्रकुर्वन्ति महतीं करुणां प्रभो॥ १९ यो मूर्ध्नि धारयेद् ब्रह्मन् विप्रपादतलोदकम्। स स्नातो सर्वतीर्थेषु पुण्यवान् नात्र संशयः॥ २० मम पुत्राश्च दाराश्च सम्पदश्च समर्पिताः। समाज्ञापय शान्तात्मन् वयं किं करवाणि ते॥ २१ इत्थं वदन्तं भूपं तं स निरीक्ष्य मुनीश्वरः। स्पृशन् करेण राजानं प्रत्युवाचातिहर्षितः॥ २२ ऋषिरुवाच राजन् यदुक्तं भवता तत्सर्वं त्वत्कुलोचितम्। विनयावनताः सर्वे परं श्रेयो भजन्ति हि॥ २३ प्रीतोऽस्मि तव भूपाल सन्मार्गपरिवर्तिनः। स्वस्ति तेऽस्तु महाभाग यत्पृच्छामि तदुच्यताम्॥ २४ हरिसंतोषकान्यासन् पुराणानि बहून्यपि। माघे मासि चोद्यतोऽसि रामायणपरायणः॥ २५ तव भार्यापि साध्वीयं नित्यं रामपरायणा। किमर्थमेतद् वृत्तान्तं यथावद् वक्तुमर्हसि॥ २६ राजोवाच शृणुष्व भगवन् सर्वं यत्पृच्छसि वदामि तत्। आश्चर्यं यद्धि लोकानामावयोश्चरितं मुने॥ २७ अहमासं पुरा शूद्रो मालतिर्नाम सत्तम। कुमार्गनिरतो नित्यं सर्वलोकाहिते रतः॥ २८ पिशुनो धर्मविद्वेषी देवद्रव्यापहारकः। महापातकसंसर्गी देवद्रव्योपजीवकः॥ २९ गोघ्नश्च ब्रह्महा चौरो नित्यं प्राणिवधे रतः। नित्यं निष्ठुरवक्ता च पापी वेश्यापरायणः॥ ३० किञ्चित् काले स्थितो ह्येवमनादृत्य महद्वचः। सर्वबन्धुपरित्यक्तो दुःखी वनमुपागमम्॥ ३१ मृगमांसाशनं नित्यं तथा मार्गविरोधकृत्। एकाकी दुःखबहुलो न्यवसं निर्जने वने॥ ३२ एकदा क्षुत्परिश्रान्तो निद्राघूर्ण: पिपासितः। वसिष्ठस्याश्रमं दैवादपश्यं निर्जने वने॥ ३३ हंसकारण्डवाकीर्णं तत्समीपे महत्सरः। पर्यन्ते वनपुष्पौघैश्छादितं तन्मुनीश्वर॥ ३४ अपिबं तत्र पानीयं तत्तटे विगतश्रमः। उन्मूल्य वृक्षमूलानि मया क्षुच्च निवारिता॥ ३५ वसिष्ठस्याश्रमे तत्र निवासं कृतवानहम्। शीर्णस्फटिकसंधानं तत्र चाहमकारिषम्॥ ३६ पर्णैस्तृणैश्च काष्ठैश्च गृहं सम्यक् प्रकल्पितम्। तत्राहं व्याधसत्त्वस्थो हत्वा बहुविधान् मृगान्॥ ३७ आजीविकां च कुर्वाणो वत्सराणां च विंशतिम्। अथेयमागता साध्वी विन्ध्यदेशसमुद्भवा॥ ३८ निषादकुलसम्भूता नाम्ना कालीति विश्रुता। बन्धुवर्गैः परित्यक्ता दुःखिता जीर्णविग्रहा॥ ३९ ब्रह्मन् क्षुत्तृट्परिश्रान्ता शोचन्ती भौक्तिकीं क्रियाम्। दैवयोगात् समायाता भ्रमन्ती विजने वने॥ ४० मासे ग्रीष्मे च तापार्त्ता ह्यन्तस्तापप्रपीडिता। इमां दुःखवतीं दृष्ट्वा जाता मे विपुला घृणा॥ ४१ मया दत्तं जलं चास्यै मांसं वनफलं तथा। गतश्रमा तु सा पृष्टा मया ब्रह्मन् यथातथम्॥ ४२ न्यवेदयत् स्वकर्माणि तानि शृणु महामुने। इयं काली तु नाम्ना वै निषादकुलसम्भवा॥ ४३ दाम्भिकस्य सुता विद्वन् न्यवसद् विन्ध्यपर्वते। परस्वहारिणी नित्यं सदा पैशुन्यवादिनी॥ ४४ बन्धुवर्गैः परित्यक्ता यतो हतवती पतिम्। कान्तारे विजने ब्रह्मन् मत्समीपमुपागता॥ ४५ इत्येवं स्वकृतं कर्म सर्वं मह्यं न्यवेदयत्। वसिष्ठस्याश्रमे पुण्ये अहं चेयं च वै मुने॥ ४६ दम्पतीभावमाश्रित्य स्थितौ मांसाशिनौ तदा । उद्यमार्थे गतौ चैव वसिष्ठस्याश्रमं तदा॥ ४७ दृष्ट्वा चैव समाजं च देवर्षीणां च सत्तम। रामायणपरा विप्रा माघे दृष्ट्वा दिने दिने॥ ४८ निराहारौ च विक्रान्तौ क्षुत्पिपासाप्रपीडितौ। अनिच्छया गतौ तत्र वसिष्ठस्याश्रमं प्रति॥ ४९ रामायणकथां श्रोतुं नवाह्ना चैव भक्तितः। तत्काल एव पञ्चत्वमावयोरभवन्मुने॥ ५० कर्मणा तेन तुष्टात्मा भगवान् मधुसूदनः। स्वदूतान् प्रेषयामास मदाहरणकारणात्॥ ५१ आरोप्य मां विमाने तु जग्मुस्ते च परं पदम्। आवां समीपमापन्नौ देवदेवस्य चक्रिणः॥ ५२ भुक्तवन्तौ महाभोगान् यावत्कालं शृणुष्व मे। युगकोटिसहस्राणि युगकोटिशतानि च॥ ५३ उषित्वा रामभवने ब्रह्मलोकमुपागतौ। तावत्कालं च तत्रापि स्थित्वैन्द्रपदमागतौ॥ ५४ तत्रापि तावत्कालं च भुक्त्वा भोगाननुत्तमान्। ततः पृथ्वीं वयं प्राप्ताः क्रमेण मुनिसत्तम॥ ५५ अत्रापि सम्पदतुला रामायणप्रसादतः। अनिच्छया कृतेनापि प्राप्तमेवंविधं मुने॥ ५६ नवाह्ना किल श्रोतव्यं रामायणकथामृतम्। भक्तिभावेन धर्मात्मञ्जन्ममृत्युजरापहम्॥ ५७ अवशेनापि यत्कर्म कृतं तु सुमहत्फलम्। ददाति शृणु विप्रेन्द्र रामायणप्रसादतः॥ ५८ नारद उवाच एतत्सर्वं निशम्यासौ विभाण्डको मुनीश्वरः। अभिनन्द्य महीपालं प्रययौ स्वतपोवनम्॥ ५९ तस्माच्छृणुध्वं विप्रेन्द्रा देवदेवस्य चक्रिणः। रामायणकथा चैव कामधेनूपमा स्मृता॥ ६० माघे मासे सिते पक्षे रामायणं प्रयत्नतः। नवाह्ना किल श्रोतव्यं सर्वधर्मफलप्रदम्॥ ६१ य इदं पुण्यमाख्यानं सर्वपापप्रणाशनम्। वाचयेच्छृणुयाद् वापि रामभक्तश्च जायते॥ ६२
[ इति श्रीस्कन्दपुराणे उत्तरखण्डे नारदसनत्कुमारसंवादे रामायणमाहात्म्ये माघमासफलानुकीर्तनं नाम तृतीयोऽध्यायः ॥ ३॥ ]