home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat


श्रीमद्वाल्मीकीरामायणम्
श्रीमद्वाल्मीकीयरामायणमाहात्म्यम्


॥ श्रीसीतारामचन्द्राभ्यां नमः ॥

श्रीमद्वाल्मीकीयरामायणमाहात्म्यम्
द्वितीयोऽध्यायः

[ नारदसनत्कुमारसंवादः सुदासापरनाम्नः सोमदत्तस्य ब्राह्मणस्य राक्षसत्वप्राप्ती रामायणकथाश्रवणेन तस्योद्धारश्च ]

ऋषय ऊचुः कथं सनत्कुमाराय देवर्षिर्नारदो मुनिः। प्रोक्तवान् सकलान् धर्मान् कथं तौ मिलितावुभौ॥ १ कस्मिन् क्षेत्रे स्थितौ तात तावुभौ ब्रह्मवादिनौ। यदुक्तं नारदेनास्मै तत् त्वं ब्रूहि महामुने॥ २ सूत उवाच सनकाद्या महात्मानो ब्रह्मणस्तनयाः स्मृताः। निर्ममा निरहंकाराः सर्वे ते ह्यूध्वरेतसः॥ ३ तेषां नामानि वक्ष्यामि सनकश्च सनन्दनः। सनत्कुमारश्च तथा सनातन इति स्मृतः॥ ४ विष्णुभक्ता महात्मानो ब्रह्मध्यानपरायणाः। सहस्त्रसूर्यसंकाशाः सत्यवन्तो मुमुक्षवः॥ ५ एकदा ब्रह्मणः पुत्राः सनकाद्या महौजसः। मेरुशृङ्गे समाजग्मुर्वीक्षितुं ब्रह्मणः सभाम्॥ ६ तत्र गङ्गां महापुण्यां विष्णुपादोद्भवां नदीम्। निरीक्ष्य स्नातुमुद्युक्ताः सीताख्यां प्रथितौजसः॥ ७ एतस्मिन्नन्तरे विप्रा देवर्षिर्नारदो मुनिः। आजगामोच्चरन् नाम हरेर्नारायणादिकम्॥ ८ नारायणाच्युतानन्त वासुदेव जनार्दन। यज्ञेश यज्ञपुरुष राम विष्णो नमोऽस्तु ते॥ ९ इत्युच्चरन् हरेर्नाम पावयन्नखिलं जगत्। आजगाम स्तुवन् गङ्गां मुनिर्लोकैकपावनीम्॥ १० अथायान्तं समुद्वीक्ष्य सनकाद्या महौजसः। यथार्हमर्हणं चक्रुर्ववन्दे सोऽपि तान् मुनीन्॥ ११ अथ तत्र सभामध्ये नारायणपरायणम्। सनत्कुमारः प्रोवाच नारदं मुनिपुङ्गवम्॥ १२ सनत्कुमार उवाच सर्वज्ञोऽसि महाप्राज्ञ मुनीशानां च नारद। हरिभक्तिपरो यस्मात्त्वत्तो नास्त्यपरोऽधिकः॥ १३ येनेदमखिलं जातं जगत् स्थावरजङ्गमम्। गङ्गा पादोद्भवा यस्य कथं स ज्ञायते हरिः॥ १४ अनुग्राह्योऽस्मि यदि ते तत्त्वतो वक्तुमर्हसि। नारद उवाच नमः पराय देवाय परात्परतराय च॥ १५ परात्परनिवासाय सगुणायागुणाय च। ज्ञानाज्ञानस्वरूपाय धर्माधर्मस्वरूपिणे॥ १६ विद्याविद्यास्वरूपाय स्वस्वरूपाय ते नमः। यो दैत्यहन्ता नरकान्तकश्च भुजाग्रमात्रेण च धर्मगोप्ता॥ १७ भूभारसंघातविनोदकामं नमामि देवं रघुवंशदीपम्। आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः॥ १८ हतवान् राक्षसानीकं रामं दाशरथिं भजे। एवमादीन्यनेकानि चरितानि महात्मनः॥ १९ तेषां नामानि संख्यातुं शक्यन्ते नाब्दकोटिभिः। महिमानं तु यन्नाम्नः पारं गन्तुं न शक्यते॥ २० मनुभिश्च मुनीन्द्रैश्च कथं तं क्षुल्लको भजेत्। यन्नाम्नः स्मरणेनापि महापातकिनोऽपि ये॥ २१ पावनत्वं प्रपद्यन्ते कथं स्तोष्यामि क्षुल्लधीः। रामायणपरा ये तु घोरे कलियुगे द्विजाः॥ २२ त एव कृतकृत्याश्च तेषां नित्यं नमोऽस्तु ते। ऊर्जे मासि सिते पक्षे चैत्रे माघे तथैव च॥ २३ नवाह्ना किल श्रोतव्यं रामायणकथामृतम्। गौतमशापतः प्राप्तः सुदासो राक्षसीं तनुम्॥ २४ | रामायणप्रभावेण विमुक्तिं प्राप्तवानसौ। सनत्कुमार उवाच रामायणं केन प्रोक्तं सर्वधर्मफलप्रदम्॥ २५ प्राप्तः कथं गौतमेन सौदासो मुनिसत्तम। रामायणप्रभावेण कथं भूयो विमोक्षितः॥ २६ अनुग्राह्योऽस्मि यदि ते तत्त्वतो वक्तुमर्हसि। सर्वमेतदशेषेण मुने वक्तुमर्हसि॥ २७ शृण्वतां वदतां चैव कथा पापविनाशिनी। नारद उवाच शृणु रामायणं विप्र यद् वाल्मीकिमुखोद्गतम्॥ २८ नवाह्ना खलु श्रोतव्यं रामायणकथामृतम्। आस्ते कृतयुगे विप्रो धर्मकर्मविशारदः॥ २९ सोमदत्त इति ख्यातो नाम्ना धर्मपरायणः। विप्रस्तु गौतमाख्येन मुनिना ब्रह्मवादिना॥ ३० श्रावितः सर्वधर्मांश्च गङ्गातीरे मनोरमे। पुराणशास्त्रकथनैस्तेनासौ बोधितोऽपि च॥ ३१ श्रुतवान् सर्वधर्मान् वै तेनोक्तानखिलानपि। कदाचित् परमेशस्य परिचर्यापरोऽभवत्। ३२ उपस्थितायापि तस्मै प्रणामं न चकार सः। स तु शान्तो महाबुद्धिर्गौतमस्तेजसां निधिः॥ ३३ शास्त्रोदितानि कर्माणि करोति स मुदं ययौ। यस्त्वर्चितो महादेवः शिवः सर्वजगद्गुरुः॥ ३४ गुर्ववज्ञाकृतं पापं राक्षसत्वे नियुक्तवान्। उवाच प्राञ्जलिर्भूत्वा विनयेषु च कोविदः॥ ३५ विप्र उवाच भगवन् सर्वधर्मज्ञ सर्वदर्शिन् सुरेश्वर। क्षमस्व भगवन् सर्वमपराधः कृतो मया॥ ३६ गौतम उवाच ऊर्जे मासे सिते पक्षे रामायणकथामृतम्। नवाह्ना चैव श्रोतव्यं भक्तिभावेन सादरम्॥ ३७ नात्यन्तिकं भवेदेतद् द्वादशाब्दं भविष्यति। विप्र उवाच केन रामायणं प्रोक्तं चरितानि तु कस्य वै॥ ३८ एतत् सर्वं महाप्राज्ञ संक्षेपाद् वक्तुमर्हसि। मनसा प्रीतिमापन्नो ववन्दे चरणौ गुरोः॥ ३९ गौतम उवाच शृणु रामायणं विप्र वाल्मीकिमुनिना कृतम्। येन रामावतारेण राक्षसा रावणादयः॥ ४० हतास्तु देवकार्यं हि चरितं तस्य तच्छृणु। कार्त्तिके च सिते पक्षे कथा रामायणस्य तु॥ ४१ नवमेऽहनि श्रोतव्या सर्वपापप्रणाशिनी। इत्युक्त्वा चार्थसम्पन्नो गौतमः स्वाश्रमं ययौ॥ ४२ विप्रोऽपि दुःखमापन्नो राक्षसीं तनुमाश्रितः। क्षुत्पीडितः पिपासार्तो नित्यं क्रोधपरायणः॥ ४३ कृष्णक्षपाद्युतिर्भीमो बभ्राम विजने वने। मृगांश्च विविधांस्तत्र मनुष्यांश्च सरीसृपान्॥ ४४ विहगान् प्लवगांश्चैव प्रसभात्तानभक्षयत्। अस्थिभिर्बहुभिर्विप्राः पीतरक्तकलेवरैः॥ ४५ रक्तादप्रेतकैश्चैव तेनासीद् भूर्भयंकरी। ऋतुत्रये स पृथिवीं शतयोजनविस्तराम्॥ ४६ कृत्वातिदुःखितां पश्चाद्वनान्तरमगात् पुनः। तत्रापि कृतवान् नित्यं नरमांसाशनं तदा॥ ४७ जगाम नर्मदातीरे सर्वलोकभयंकरः। एतस्मिन्नन्तरे प्राप्तः कश्चिद् विप्रोऽतिधार्मिकः॥ ४८ कलिङ्गदेशसम्भूतो नाम्ना गर्ग इति स्मृतः। वहन् गङ्गाजलं स्कन्धे स्तुवन् विश्वेश्वरं प्रभुम्॥ ४९ गायन् नामानि रामस्य समायातोऽतिहर्षितः। तमायान्तं मुनिं दृष्ट्वा सुदासो नाम राक्षसः॥ ५० प्राप्तो नः पारणेत्युक्त्वा भुजावुद्यम्य तं ययौ। तेन कीर्तितनामानि श्रुत्वा दूरे व्यवस्थितः॥ ५१ अशक्तस्तं द्विजं हन्तुमिदमूचे स राक्षसः। राक्षस उवाच अहो भद्र महाभाग नमस्तुभ्यं महात्मने॥ ५२ नामस्मरणमात्रेण राक्षसा अपि दूरगाः। मया प्रभक्षिताः पूर्वं विप्राः कोटिसहस्रशः॥ ५३ नामप्रावरणं विप्र रक्षति त्वां महाभयात्। नामस्मरणमात्रेण राक्षसा अपि भो वयम्॥ ५४ परां शान्तिं समापन्ना महिमा कोऽच्युतस्य हि। सर्वथा त्वं महाभाग रागादिरहितो द्विज॥ ५५ रामकथाप्रभावेण पाह्यस्मात् पातकाधमात्। गुर्ववज्ञा मया पूर्वं कृता च मुनिसत्तम॥ ५६ कृतश्चानुग्रहः पश्चाद् गुरुणोक्तमिदं वचः। वाल्मीकिमुनिना पूर्वं कथा रामायणस्य च॥ ५७ | ऊर्जे मासे सिते पक्षे श्रोतव्या च प्रयत्नतः। गुरुणापि पुनः प्रोक्तं रम्यं तु शुभदं वचः॥ ५८ नवाह्ना खलु श्रोतव्यं रामायणकथामृतम्। तस्माद् ब्रह्मन् महाभाग सर्वशास्त्रार्थकोविद॥ ५९ कथाश्रवणमात्रेण पाह्यस्मात् पापकर्मणः। नारद उवाच ततो रामायणं ख्यातं राममाहात्म्यमुत्तमम्॥ ६० निशम्य विस्मयाविष्टो बभूव द्विजसत्तमः। ततो विप्रः कृपाविष्टो रामनामपरायणः॥ ६१ सुदासराक्षसं नाम चेदं वाक्यमथाब्रवीत्। विप्र उवाच राक्षसेन्द्र महाभाग मतिस्ते विमलाभवत्॥ ६२ अस्मिन्नूर्जे सिते पक्षे रामायणकथां शृणु। शृणु त्वं राममाहात्म्यं रामभक्तिपरायण॥ ६३ रामध्यानपराणां च कः समर्थः प्रबाधितुम्। रामभक्तिपरो यत्र तत्र ब्रह्मा हरिः शिवः॥ ६४ तत्र देवाश्च सिद्धाश्च रामायणपरा नराः। तस्मादूर्जे सिते पक्षे रामायणकथां शृणु॥ ६५ नवाह्ना खलु श्रोतव्यं सावधानः सदा भव। इत्युक्त्वा कथयामास रामायणकथां मुनिः॥ ६६ कथाश्रवणमात्रेण राक्षसत्वमपाकृतम्। विसृज्य राक्षसं भावमभवद् देवतोपमः॥ ६७ कोटिसूर्यप्रतीकाशो नारायणसमप्रभः। शङ्खचक्रगदापाणिर्हरे : सद्म जगाम सः॥ ६८ स्तुवन् तं ब्राह्मणं सम्यग् जगाम हरिमन्दिरम्॥ ६९ नारद उवाच तस्माच्छृणुध्वं विप्रेन्द्रा रामायणकथामृतम्। स तस्य महिमा तत्र ऊर्जे मासि च कीर्त्यते॥ ७० यन्नामस्मरणादेव महापातककोटिभिः। विमुक्तः सर्वपापेभ्यो नरो याति परां गतिम्॥ ७१ रामायणेति यन्नाम सकृदप्युच्यते यदा। तदैव पापनिर्मुक्तो विष्णुलोकं स गच्छति॥ ७२ ये पठन्ति सदाSSख्यानं भक्त्या शृण्वन्ति ये नराः। गङ्गास्नानाच्छतगुणं तेषां संजायते फलम्॥ ७३

[ इति श्रीस्कन्दपुराणे उत्तरखण्डे नारदसनत्कुमारसंवादे रामायणमाहात्म्ये राक्षसमोक्षणं नाम द्वितीयोऽध्यायः ॥ २ ॥ ]


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध