home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat


श्रीमद्वाल्मीकीरामायणम्
श्रीमद्वाल्मीकीयरामायणमाहात्म्यम्


॥ श्रीसीतारामचन्द्राभ्यां नमः ॥

श्रीमद्वाल्मीकीयरामायणमाहात्म्यम्
प्रथमोऽध्यायः

[ कलिवृत्तवर्णनं कलिकाले मनुष्याणामुद्धारोपायो रामायणस्य पाठः श्रवणं च रामायणमहिमा तच्छ्रवणायोत्तमकालादेर्वर्णनं च ]

श्रीरामः शरणं समस्तजगतां रामं विना का गती रामेण प्रतिहन्यते कलिमलं रामाय कार्यं नमः। रामात् त्रस्यति कालभीमभुजगो रामस्य सर्वं वशे रामे भक्तिरखण्डिता भवतु मे राम त्वमेवाश्रयः॥ १ चित्रकूटालयं राममिन्दिरानन्दमन्दिरम्। वन्दे च परमानन्दं भक्तानामभयप्रदम्॥ २ ब्रह्मविष्णुमहेशाद्या यस्यांशा लोकसाधकाः। नमामि देवं चिद्रूपं विशुद्धं परमं भजे॥ ३ ऋषय ऊचुः भगवन् सर्वमाख्यातं यत् पृष्टं विदुषा त्वया। संसारपाशबद्धानां दुःखानि सुबहूनि च॥ ४ एतत्संसारपाशस्यच्छेदकः कतमः स्मृतः। कलौ वेदोक्तमार्गाश्च नश्यन्तीति त्वयोदिताः॥ ५ अधर्मनिरतानां च यातनाश्च प्रकीर्तिताः। घोरे कलियुगे प्राप्ते वेदमार्गबहिष्कृते॥ ६ पाखण्डत्वं प्रसिद्धं वै सर्वैश्च परिकीर्तितम्। कामार्त्ता ह्रस्वदेहाश्च लुब्धा अन्योन्यतत्पराः॥ ७ कलौ सर्वे भविष्यन्ति स्वल्पायुर्बहुपुत्रकाः। स्त्रियः स्वपोषणपरा वेश्याचरणतत्पराः॥ ८ पतिवाक्यमनादृत्य सदान्यगृहतत्पराः। दुःशीलेषु करिष्यन्ति पुरुषेषु सदा स्पृहाम्। ९ असद्वार्त्ता भविष्यन्ति पुरुषेषु कुलाङ्गनाः। परुषानृतभाषिण्यो देहसंस्कारवर्जिताः॥ १० वाचालाश्च भविष्यन्ति कलौ प्रायेण योषितः। भिक्षवश्चापि मित्रादिस्नेहसम्बन्धयन्त्रिताः॥ ११ अन्नोपाधिनिमित्तेन शिष्यान् बध्नन्ति लोलुपाः। उभाभ्यामपि पाणिभ्यां शिरः कण्डूयनं स्त्रियः॥ १२ कुर्वन्त्यो गृहभर्तॄणामाज्ञां भेत्स्यन्त्यतन्द्रिताः। पाखण्डालापनिरताः पाखण्डजनसङ्गिनः॥ १३ यदा द्विजा भविष्यन्ति तदा वृद्धिं गतः कलिः। घोरे कलियुगे ब्रह्मन् जनानां पापकर्मिणाम्॥ १४ मनः शुद्धिविहीनानां निष्कृतिश्च कथं भवेत्। यथा तुष्यति देवेशो देवदेवो जगद्गुरुः॥ १५ ततो वदस्व सर्वज्ञ सूत धर्मभृतां वर। वद सूत मुनिश्रेष्ठ सर्वमेतदशेषतः॥ १६ कस्य नो जायते तुष्टिः सूत त्वद्वचनामृतात्॥ १७ सूत उवाच शृणुध्वमृषयः सर्वे यदिष्टं वो वदाम्यहम्। गीतं सनत्कुमाराय नारदेन महात्मना॥ १८ रामायणं महाकाव्यं सर्ववेदेषु सम्मतम्। सर्वपापप्रशमनं दुष्टग्रहनिवारणम्। १९ दुःस्वप्ननाशनं धन्यं भुक्तिमुक्तिफलप्रदम्। रामचन्द्रकथोपेतं सर्वकल्याणसिद्धिदम्॥ २० धर्मार्थकाममोक्षाणां हेतुभूतं महाफलम्। अपूर्वं पुण्यफलदं शृणुध्वं सुसमाहिताः॥ २१ महापातकयुक्तो वा युक्तो वा सर्वपातकैः। श्रुत्वैतदार्षं दिव्यं हि काव्यं शुद्धिमवाप्नुयात्॥ २२ रामायणेन वर्तन्ते सुतरां ये जगद्धिताः। त एव कृतकृत्याश्च सर्वशास्त्रार्थकोविदाः॥ २३ धर्मार्थकाममोक्षाणां साधनं च द्विजोत्तमाः। श्रोतव्यं च सदा भक्त्या रामायणपरामृतम्॥ २४ पुरार्जितानि पापानि नाशमायान्ति यस्य वै। रामायणे महाप्रीतिस्तस्य वै भवति ध्रुवम्॥ २५ रामायणे वर्तमाने पापपाशेन यन्त्रितः। अनादृत्य असद्गाथासक्तबुद्धिः प्रवर्तते॥ २६ रामायणं नाम परं तु काव्यं सुपुण्यदं वै शृणुत द्विजेन्द्राः। यस्मिञ्छ्रते जन्मजरादिनाशो भवत्यदोषः स नरोऽच्युतः स्यात्॥ २७ वरं वरेण्यं वरदं तु काव्यं संतारयत्याशु च सर्वलोकम्। संकल्पितार्थप्रदमादिकाव्यं श्रुत्वा च रामस्य पदं प्रयाति॥ २८ ब्रह्मेशविष्ण्वाख्यशरीरभेदै- र्विश्वं सृजत्यत्ति च पाति यश्च। तमादिदेवं परमं वरेण्य- माधाय चेतस्युपयाति मुक्तिम्॥ २९ यो नामजात्यादिविकल्पहीनः परावराणां परमः परः स्यात्। वेदान्तवेद्यः स्वरुचा प्रकाशः स वीक्ष्यते सर्वपुराणवेदैः॥ ३० ऊर्जे माघे सिते पक्षे चैत्रे च द्विजसत्तमाः। नवाह्ना खलु श्रोतव्यं रामायणकथामृतम्॥ ३१ इत्येवं शृणुयाद् यस्तु श्रीरामचरितं शुभम्। सर्वान् कामानवाप्नोति परत्रामुत्र चोत्तमान्॥ ३२ त्रिसप्तकुलसंयुक्तः सर्वपापविवर्जितः। प्रयाति रामभवनं यत्र गत्वा न शोचते॥ ३३ चैत्रे माघे कार्तिके च सिते पक्षे च वाचयेत्। नवाहस्सु महापुण्यं श्रोतव्यं च प्रयत्नतः॥ ३४ रामायणमादिकाव्यं स्वर्गमोक्षप्रदायकम्। तस्माद् घोरे कलियुगे सर्वधर्मबहिष्कृते॥ ३५ नवभिर्दिनैः श्रोतव्यं रामायणकथामृतम्। रामनामपरा ये तु घोरे कलियुगे द्विजाः॥ ३६ त एव कृतकृत्याश्च न कलिर्बाधते हि तान्। कथा रामायणस्यापि नित्यं भवति यद्गृहे॥ ३७ तद् गृहं तीर्थरूपं हि दुष्टानां पापनाशनम्। तावत्पापानि देहेऽस्मिन् निवसन्ति तपोधनाः॥ ३८ यावन्न श्रूयते सम्यक् श्रीमद्रामायणं नरैः। दुर्लभैव कथा लोके श्रीमद्रामायणोद्भवा॥ ३९ कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते। ऊर्जे माघे सिते पक्षे चैत्रे च द्विजसत्तमाः॥ ४० यस्य श्रवणमात्रेण सौदासोऽपि विमोचितः। गौतमशापतः प्राप्तः सौदासो राक्षसीं तनुम्॥ ४१ रामायणप्रभावेण विमुक्तिं प्राप्तवान् पुनः। यस्त्वेतच्छृणुयाद् भक्त्या रामभक्तिपरायणः॥ ४२ स मुच्यते महापापैः पुरुषः पातकादिभिः॥ ४३

[इति श्रीस्कन्दपुराणे उत्तरखण्डे नारदसनत्कुमारसंवादे रामायणमाहात्म्ये कल्पानुकीर्तनं नाम प्रथमोऽध्यायः॥१॥]

 

बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध