शुक्काम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥
ओं भूः .......ओम्। ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीसीतालक्ष्मण भरतशत्रुघ्नहनूमत्समेतश्रीरामचन्द्रप्रसादसिद्ध्यर्थं श्रीरामचन्द्रप्रसादेन इष्टकाम्यार्थसिद्धयर्थं सर्वपापक्षयार्थ धर्मार्थकाममोक्षसिद्ध्यर्थं श्रीवाल्मीकिरामायणपारायणं करिष्ये। तदर्थं श्रीरामचन्द्रपूजां करिष्ये।
अस्मिन् पुस्तके श्रीरामचन्द्रं ध्यायामि, आवाहयामि, आसनं समर्पयामि, पाद्यं समर्पयामि, अर्घ्यं समर्पयामि, मधुपर्कं समर्पयामि स्नपयामि। वस्त्रयज्ञोपवीत- उत्तरीय - आभरणानि समर्पयामि, गन्धान् धारयामि, गन्धोपरि अक्षतान् समर्पयामि, पुष्पैः पूजयामि।
ओं केशवाय नमः ओं नारायणाय नमः ओं माधवाय नमः ओं गोविन्दाय नमः ओं विष्णवे नमः ओं मधुसूदनाय नमः ओं त्रिविक्रमाय नमः ओं वामनाय नमः ओं श्रीधराय नमः ओं हृषीकेशाय नमः ओं पद्मनाभाय नमः ओं दामोदराय नमः ओं रामाय नमः ओं रामभद्राय नमः ओं रामचन्द्राय नमः ओं वेधसे नमः ओं रघुनाथाय नमः ओं नाथाय नमः ओं सीतायाः पतये नमः ओं दाशरथये नमः श्रीरामचन्द्राय नमः -धूपं आघ्रापयामि श्रीरामचन्द्राय नमः -दीपं दर्शयामि श्रीरामचन्द्राय नमः -....निवेदयामि श्रीरामचन्द्राय नमः -ताम्बूलं समर्पयामि श्रीरामचन्द्राय नमः -कर्पूरनीराजनं दर्शयामि श्रीरामचन्द्राय नमः -छत्रं समर्पयामि श्रीरामचन्द्राय नमः -चामरं समर्पयामि श्रीरामचन्द्राय नमः -नृत्तं समर्पयामि श्रीरामचन्द्राय नमः -गीतं समर्पयामि श्रीरामचन्द्राय नमः -वाद्यं समर्पयामि श्रीरामचन्द्राय नमः -मन्त्रपुष्पाणि समर्पयामि श्रीरामचन्द्राय नमः -समस्तराजोपचार- देवोपचारान् समर्पयामि श्रीरामचन्द्राय नमः -अनेककोटिप्रदक्षिण- नमस्कारान् समर्पयामि