home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

द्वादशः सर्गः ॥१-१२॥

॥अश्वमेधसंभारः॥

[ राज्ञ ऋषीन् प्रति यज्ञं कारयितुं प्रस्ताव, ऋषिभी राजानं प्रति राज्ञा चामात्यान् प्रति यज्ञसामग्री-संभरणायादेशदानम् ]

ततः काले बहुतिथे कस्मिंश्चित् सुमनोहरे। वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत् ॥ १॥ ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम्। यज्ञार्थं वरयामास संतानार्थं कुलस्य च॥ २॥ तथेति च स राजानमुवाच च सुसत्कृतः। सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्॥ ३॥ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्। ततो नृपोऽब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम्॥ ४॥ सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः। सुयज्ञं वामदेवं च जाबालिमथ काश्यपम्॥ ५॥ पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः। ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः॥ ६॥ समानयत् स तान् विप्रान् समर्थान् वेदपारगान्। तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा॥ ७॥ धर्मार्थसहितं युक्तं श्लक्ष्णं वचनमब्रवीत्। मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम्॥ ८॥ तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम। तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा॥ ९॥ ऋषिपुत्रप्रभावेण कामान् प्राप्स्यामि चाप्यहम्। ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन्॥ १०॥ वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम्। ऋश्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा॥ ११॥ सम्भाराः सम्भ्रियन्तां ते तुरगश्च विमुच्यताम्। सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्॥ १२॥ सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान्। यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता॥ १३॥ ततः प्रीतोऽभवद् राजा श्रुत्वा तद्द्विजभाषितम्। अमात्यांश्चाब्रवीद् राजा हर्षेणेदं शुभाक्षरम्॥ १४॥ सम्भाराः संभ्रियन्तां मे गुरूणां वचनादिह। समर्थाधिष्ठतश्चाश्वः सोपाध्यायो विमुच्यताम्॥ १५॥ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्। शान्तयश्चापि वर्धन्तां यथाकल्पं यथाविधि॥ १६॥ शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता। नापराधो भवेत् कष्टो यद्यस्मिन् क्रतुसत्तमे॥ १७॥ छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः। विघ्नितस्य हि यज्ञस्य सद्यः कर्ता विनश्यति॥ १८॥ तद् यथा विधिपूर्वं मे क्रतुरेष समाप्यते। तथा विधानं क्रियतां समर्थाः करणेष्विह॥ १९॥ तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन्। पार्थिवेन्द्रस्य तद् वाक्यं यथाज्ञप्तमकुर्वत॥ २०॥ ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम्। अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्॥ २१॥ गतेष्वथ द्विजाग्र्येषु मन्त्रिणस्तान् नराधिपः। विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे अश्वमेधसंभारो नाम द्वादशः सर्गः ॥१-१२॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध