पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत्। प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान्॥ १॥ अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च। अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम्॥ २॥ यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव। यथा न विघ्नाः क्रियन्ते यज्ञाङ्गेषु विधीयताम्॥ ३॥ भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान्। वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः॥ ४॥ तथेति च स राजानमब्रवीद् द्विजसत्तमः। करिष्ये सर्वमेवैतद् भवता यत्समर्थितम्॥ ५॥ ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान्। स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान्॥ ६॥ कर्मान्तिकान् शिल्पकारान् वर्धकीन् खनकानपि। गणकान् शिल्पिनश्चैव तथैव नटनर्तकान्॥ ७॥ तथा शुचीन् शास्त्रविदः पुरुषान् सुबहुश्रुतान्। यज्ञकर्म समीहन्तां भवन्तो राजशासनात्॥ ८॥ इष्टका बहुसाहस्री शीघ्रमानीयतामिति। औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः॥ ९॥ ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः। भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः॥ १०॥ तथा पौरजनस्यापि कर्तव्या बहुविस्तराः। आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक्॥ ११॥ वाजिवारणशालाश्च तथा शय्यागृहाणि च। भटानां महदावासा वैदेशिकनिवासिनाम्॥ १२॥ आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः। पौरजानपदस्यापि जनस्य बहु शोभनम्॥ १३॥ दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया। सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः॥ १४॥ न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि। यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा॥ १५॥ तेषामपि विशेषेण पूजा कार्या यथाक्रमम्। ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च॥ १६॥ यथा सर्वं सुविहितं न किञ्चित् परिहीयते। तथा भवन्तः कुर्वन्तु प्रीतस्निग्धेन चेतसा॥ १७॥ ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन्। यथोक्तं तत् करिष्यामो न किञ्चित् परिहीयते॥ १८॥ ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत्। निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः॥ १९॥ ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः। समानयस्व सत्कृत्य सर्वदेशेषु मानवान्॥ २०॥ मिथिलाधिपतिं शूरं जनकं सत्यवादिनम्। निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम्॥ २१॥ तमानय महाभाग स्वयमेव सुसत्कृतम्। पूर्वसम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते॥ २२॥ तथा काशिपतिं स्निग्धं सततं प्रियवादिनम्। सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह॥ २३॥ तथा केकयराजानं वृद्धं परमधार्मिकम्। श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय॥ २४॥ अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम्। वयस्यं राजसिंहस्य समानय यशास्विनम्॥ २५॥ प्राचीनान् सिन्धुसौवीरान् सौराष्ठ्रेयांश्च पार्थिवान्। दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह॥ २६॥ सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले। तानानय यथा क्षिप्रं सानुगान् सहबान्धवान्॥ २७॥ एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया। वसिष्ठवाक्यं तच्श्रुत्वा सुमन्त्रस्त्वरितस्तदा॥ २८॥ व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान्। स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात्॥ २९॥ सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः। ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते॥ ३०॥ सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम्। ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वानिदमब्रवीत्॥ ३१॥ अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा। अवज्ञया कृतं हन्याद् दातारं नात्र संशयः॥ ३२॥ ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः। बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह॥ ३३॥ ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत्। उपयाता नरव्याघ्र राजानस्तव शासनात्॥ ३४॥ मया च सत्कृताः सर्वे यथार्हं राजसत्तमाः। यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः॥ ३५॥ निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात्। सर्वकामैरुपहृतैरुपेतं वै समन्ततः॥ ३६॥ द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम्। तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयोः॥ ३७॥ दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः। ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः॥ ३८॥ ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा। यज्ञवाटगताः सर्वे यथाशास्त्रं यथाविधि। श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत्॥ ३९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे यज्ञशालप्रवेशो नाम त्रयोदशः सर्गः ॥१-१३॥