home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

पञ्चदशः सर्गः ॥१-१५॥

॥रावणवधोपायः॥

[ ऋष्यशृङ्गेण राज्ञो दशरथस्य पुत्रेष्टियज्ञस्यारम्भो देवानां प्रार्थनया ब्रह्मणा रावणवधोपायस्यानुसंधानं भगवता विष्णुना देवानामाश्वासनम् ]

मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम्। लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत्॥ १॥ इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात्। अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः॥ २॥ ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात्। जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा॥ ३॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। भागप्रतिग्रहार्थं वै समवेता यथाविधि॥ ४॥ ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः। अब्रुवन्लोककर्तारं ब्रह्माणं वचनं महत्॥ ५॥ भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः। सर्वान् नो बाधते वीर्याच्छासितुं तं न शक्नुमः॥ ६॥ त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा। मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे॥ ७॥ उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः। शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति॥ ८॥ ऋषीन् यक्षान् सगन्धर्वानसुरान् ब्राह्मणांस्तथा। अतिक्रामति दुर्धर्षो वरदानेन मोहितः॥ ९॥ नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः। चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते॥ १०॥ सुमहन्नो भयं तस्माद् राक्षसाद् घोरदर्शनात्। वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि॥ ११॥ एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत्। हन्तायं विदितस्तस्य वधोपायो दुरात्मनः॥ १२॥ तेन गन्धर्वयक्षाणां देवदानवरक्षसाम्। अवध्योऽस्मीति वागुक्तं तथेत्युक्तं च तन्मया॥ १३॥ नाकीर्तयदवज्ञानात् तद् रक्षो मानुषांस्तदा। तस्मात् स मानुषाद् वध्यो मृत्युर्नान्योऽस्य विद्यते॥ १४॥ एतत्श्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम्। देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा॥ १५॥ एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः। शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः॥ १६॥ ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः। तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः॥ १७॥ त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया। राज्ञो दशरथस्य त्वमयोध्याधिपतेः प्रभो॥ १८॥ धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः। तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च॥ १९॥ विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतुर्विधम्। तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम्॥ २०॥ अवध्यं दैवतैर्विष्णो समरे जहि रावणम्। स हि देवान् सगन्धर्वान् सिद्धांश्च मुनिसत्तमान्॥ २१॥ राक्षसो रावणो मुख्यो वीर्योत्सेकेन बाधते। ऋषयस्तु ततस्तेन गन्धर्वाप्सरसस्तथा॥ २२॥ क्रीडन्तो नन्दनवने रौद्रेण किल हिंसिताः। वधार्थं वयमायातास्तस्य वै मुनिभिः सह॥ २३॥ सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः। त्वं गतिः परमा देव सर्वेषां नः परंतपः॥ २४॥ वधाय देवशत्रूणां नृणां लोके मनः कुरु। एवमुक्तस्तु देवेशो विष्णुस्त्रिदशपुंगवः॥ २५॥ पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः। अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान्॥ २६॥ भयं त्यजत भद्रं वो हितार्थं युधि रावणम्। सपुत्रपौत्रं सामात्यं समित्रज्ञातिबान्धवम्॥ २७॥ हत्वा क्रूरं दुरात्मानं देवर्षीणां भयावहम्। दश वर्षसहस्राणि दश वर्षशतानि च॥ २८॥ वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम्। एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान्॥ २९॥ मानुष्ये चिन्तयामास जन्मभूमिमथात्मनः। ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम्॥ ३०॥ पितरं रोचयामास तदा दशरथं नृपम्। ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः। स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम्॥ ३१॥ तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम्। विरावणं साधुतपस्विकण्टकं तपस्विनामुद्धर तं भयावहम्॥ ३२॥ तमेव हत्वा सबलं सबान्धवं विरावणं रावणमुग्रपौरुषम्। स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम्॥ ३३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे रावणवधोपायो नाम पञ्चदशः सर्गः ॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध