home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

षोडशः सर्गः ॥१-१६॥

॥पायसोत्पत्तिः॥

[ देवानां विष्णुं प्रति रावणवधाय नररूपेणावतरणाय प्रार्थना राज्ञः पुत्रेष्टियज्ञेऽग्निकुण्डात् प्रादुर्भूतेन प्राजापत्यपुरुषेण पायसस्यार्पणं तद् भुक्त्वा राज्ञीनां गर्भधारणम् ]

ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः। जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत्॥ १॥ उपायः को वधे तस्य राक्षसाधिपतेः सुराः। यमहं तं समास्थाय निहन्यामृषिकण्टकम्॥ २॥ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम्। मानुषं रूपमास्थाय रावणं जहि संयुगे॥ ३॥ स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दमः। येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः॥ ४॥ संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः। नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात्॥ ५॥ अवज्ञाताः पुरा तेन वरदाने हि मानवाः। एवं पितामहात् तस्माद्वं प्राप्य स गर्वितः॥ ६॥ उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति। तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप॥ ७॥ इत्येतद् वचनं श्रुत्वा सुराणां विष्णुरात्मवान्। पितरं रोचयामास तदा दशरथं नृपम्॥ ८॥ स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः। अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः॥ ९॥ स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम्। अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः॥ १०॥ ततो वै यजमानस्य पावकादतुलप्रभम्। प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम्॥ ११॥ कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम्। स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम्॥ १२॥ शुभलक्षणसम्पन्नं दिव्याभरणभूषितम्। शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम्॥ १३॥ दिवाकरसमाकारं दीप्तानलशिखोपमम्। तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम्॥ १४॥ दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम्। प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव॥ १५॥ समवेक्ष्याब्रवीद् वाक्यमिदं दशरथं नृपम्। प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप॥ १६॥ ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः। भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते॥ १७॥ अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत्। राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया॥ १८॥ इदं तु नृपशार्दूल पायसं देवनिर्मितम्। प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम्॥ १९॥ भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै। तासु त्वं प्राप्स्यसे पुत्रान् यदर्थं यजसे नृप॥ २०॥ तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम्। पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम्॥ २१॥ अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम्। मुदा परमया युक्तश्चकाराभिप्रदक्षिणम्॥ २२॥ ततो दशरथः प्राप्य पायसं देवनिर्मितम्। बभूव परमप्रीतः प्राप्य वित्तमिवाधनः॥ २३॥ ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम्। संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत॥ २४॥ हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ। सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत्॥ २५॥ पायसं प्रतिगृह्णीष्व पुत्रीयमिदमात्मनः। कौसल्यायै नरपतिः पायसार्धं ददौ तदा॥ २६॥ अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः। कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात्॥ २७॥ प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम्। अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः॥ २८॥ एवं तासां ददौ राजा भार्याणां पायसं पृथक्। तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः। सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः॥ २९॥ ततस्तु ताः प्राश्य तदुत्तमस्त्रियो महीपतेरुत्तमपायसं पृथक्। हुताशनादित्यसमानतेजसो- ऽचिरेण गर्भान् प्रतिपेदिरे तदा॥ ३०॥ ततस्तु राजा प्रतिमीक्ष्य ताः स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानसः। बभूव हृष्टस्त्रिदिवे यथा हरिः सुरेन्द्रसिद्धर्षिगणाभिपूजितः॥ ३१॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे पायसोत्पत्तिर्नाम षोडशः सर्गः ॥१-१६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध