home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

सप्तदशः सर्गः ॥१-१७॥

॥ऋक्षवानरोत्पत्तिः॥

[ ब्रह्मणः प्रेरणया देवादिभिर्विभिन्नवानरयूथपतीना-मुत्पादनम् ]

पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः। उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम्॥ १॥ सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः। विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः॥ २॥ मायाविदश्च शूरांश्च वायुवेगसमान् जवे। नयज्ञान् बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान्॥ ३॥ असंहार्यानुपायज्ञान् सिंहसंहननान्वितान्। सर्वास्त्रगुणसम्पन्नानमृतप्राशनानिव॥ ४॥ अप्सरःसु च मुख्यासु गन्धर्वीणां तनूषु च। किन्नरीणां च गात्रेषु वानरीणां तनूषु च॥ ५॥ यक्षपन्नगकन्यासु ऋक्षविद्याधरीषु च। सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान्॥ ६॥ पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः। जृम्भमाणस्य सहसा मम वक्रात्रादजायत॥ ७॥ ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम्। जनयामासुरेवं ते पुत्रान् वानररूपिणः॥ ८॥ ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः। चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः॥ ९॥ वानरेन्द्रं महेन्द्राभमिन्द्रो वालिनमात्मजम्। सुग्रीवं जनयामास तपनस्तपतां वरः॥ १०॥ बृहस्पतिस्त्वजनयत् तारं नाम महाहरिम्। सर्ववानरमुख्यानां बुद्धिमन्तमनुत्तमम्॥ ११॥ धनदस्य सुतः श्रीमान् वानरो गन्धमादनः। विश्वकर्मा त्वजनयन्नलं नाम महाहरिम्॥ १२॥ पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः। तेजसा यशसा वीर्यादत्यरिच्यत वीर्यवान्॥ १३॥ रूपद्रविणसम्पन्नावश्विनौ रूपसम्मतौ। मैन्दं च द्विविदं चैव जनयामासतुः स्वयम्॥ १४॥ वरुणो जनयामास सुषेणं नाम वानरम्। शरभं जनयामास पर्जन्यस्तु महाबलम्॥ १५॥ मारुतस्यात्मजः श्रीमान् हनुमान् नाम वानरः। वज्रसंहननोपेतो वैनतेयसमो जवे॥ १६॥ सर्ववानरमुख्येषु बुद्धिमान् बलवानपि। ते सृष्टा बहुसाहस्रा दशग्रीववध्व् रताः॥ १७॥ अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः। ते गजाचलसंकाशा वपुष्मन्तो महाबलाः॥ १८॥ ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे। यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः॥ १९॥ अजायत समं तेन तस्य तस्य पृथक् पृथक्। गोलाङ्गूलीषु चोत्पन्नाः केचित् संमतविक्रमाः॥ २०॥ ऋक्षीषु च तथा जाता वानराः किन्नरीषु च। देवा महर्षिगन्धर्वास्तार्क्ष्या यक्षा यशस्विनः॥ २१॥ नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः। बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः॥ २२॥ चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः। वानरान् सुमहाकायान् सर्वान् वै वनचारिणः॥ २३॥ अप्सरःसु च मुख्यासु तथा विद्याधरीषु च। नागकन्यासु च तदा गन्धर्वीणां तनूषु च॥ कामरूपबलोपेता यथाकामं विचारिणः॥ २४॥ सिंहशार्दूलसदृशा दर्पेण च बलेन च। शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः॥ २५॥ नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः। विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान्॥ २६॥ क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम्। दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवान्॥ २७॥ नभःस्थलं विशेयुश्च गृह्णीयुरपि तोयदान्। गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने॥ २८॥ नर्दमानांश्च नादेन पातयेयुर्विहङ्गमान्। ईदृशानां प्रसूतानि हरीणां कामरूपिणाम्॥ २९॥ शतं शतसहस्राणि यूथपानां महात्मनाम्। ते प्रधानेषु यूथेषु हरीणां हरियूथपाः॥ ३०॥ बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन्। अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः॥ ३१॥ अन्ये नानाविधाञ्शैलान् भेजिरे काननानि च। सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्॥ ३२॥ भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः। नलं नीलं हनूमन्तमन्यांश्च हरियूथपान्॥ ३३॥ ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः। विचरन्तोऽर्दयन् दर्पात् सिंहव्याघ्रमहोरगान्॥ ३४॥ तांश्च सर्वान् महाबाहुर्वाली विपुलविक्रमः। जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान्॥ ३५॥ तैरियं पृथिवी शूरैः सपर्वतवनार्णवा। कीर्णा विविधसंस्थानैर्नानाव्यञ्जनलक्षणैः॥ ३६॥ तैर्मेघवृन्दाचलकूटकल्पै- र्महाबलैर्वानरयूथपालैः। बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः॥ ३७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे ऋक्षवानरोत्पत्तिर्नाम सप्तदशः सर्गः ॥१-१७॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध