home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

अष्टादशः सर्गः ॥१-१८॥

॥श्रीरामाद्यवतारः॥

[ समागतान् भूपालानृष्यशृङ्गं च विसर्प्य सपत्नीकस्य राज्ञः स्वपुर्यामागमनं, श्रीरामभरतलक्ष्मणशत्रुघ्नानां जन्मसंस्कारशीलगुणानां च वर्णनं, राज्ञः सभायां विश्वामित्रस्यागमनं सत्कारश्च ]

निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः। प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम्॥ १॥ समाप्तदीक्षानियमः पत्नीगणसमन्वितः। प्रविवेश पुरीं राजा सभृत्यबलवाहनः॥ २॥ यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः। मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुंगवम्॥ ३॥ श्रीमतां गच्छतां तेषां स्वपुराणि पुरात् ततः। बलानि राज्ञां शुभ्राणि प्रसृष्टानि चकाशिरे॥ ४॥ गतेषु पृथिवीशेषु राजा दशरथस्तदा। प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमम्॥ ५॥ शान्तया प्रययौ सार्धमृश्यशृङ्गः सुपूजितः। अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता॥ ६॥ एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः। उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन्॥ ७॥ ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः। ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ॥ ८॥ नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु। ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह॥ ९॥ प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम्। कौसल्याजनयद् रामं सर्वलक्षणसंयुतम्॥ १०॥ विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकवर्धनम्। कौसल्या शुशुभे तेन पुत्रेणामिततेजसा॥ ११॥ यथा वरेण देवानामदितिर्वज्रपाणिना। भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः॥ १२॥ साक्षाद् विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः। अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ॥ १३॥ सर्वास्त्रकुशलौ वीरौ विष्णोरर्धसमन्वितौ। पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः॥ १४॥ सार्पे जातौ च सौमित्री कुलीरेऽभ्युदिते रवौ। राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक्॥ १५॥ गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः। जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः॥ १६॥ देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता। उत्सवश्च महानासीदयोध्यायां जनाकुलः॥ १७॥ रथ्याश्च जनसम्बाधा नटनर्तकसंकुलाः। गायनैश्च विराविण्यो वादनैश्च तथापरैः॥ १८॥ विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विताः। प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम्॥ १९॥ ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः। अतीत्यैकादशाहं तु नामकर्म तथाकरोत्॥ २०॥ ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम्। सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा॥ २१॥ वसिष्ठः परमप्रीतो नामानि कुतवांस्तदा। ब्राह्मणान् भोजयामास पौरान् जानपदानपि॥ २२॥ अददाद् ब्राह्मणानां च रत्नौघममितं बहु तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत्॥ २३॥ तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः। बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः॥ २४॥ सर्वे वेदविदः शूराः सर्वे लोकहिते रताः। सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः॥ २५॥ तेषामपि महातेजा रामः सत्यपराक्रमः। इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः॥ २६॥ गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः। धनुर्वेदे च निरतः पितृशुश्रूषणे रतः॥ २७॥ बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः। रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः॥ २८॥ सर्वप्रियकरस्तस्य रामस्यापि शरीरतः। लक्ष्मणो लक्ष्मिसम्पन्नो बहिःप्राण इवापरः॥ २९॥ न च तेन विना निद्रां लभते पुरुषोत्तमः। मृष्टमन्नमुपानीतमश्नाति न हि तं विना॥ ३०॥ यदा हि हयमारूढो मृगयां याति राघवः। तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन्॥ ३१॥ भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः। प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः॥ ३२॥ स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः। बभूव परमप्रीतो देवैरिव पितामहः॥ ३३॥ ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः। ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः॥ ३४॥ तेषामेवंप्रभावाणां सर्वेषां दीप्ततेजसाम् पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा॥ ३५॥ ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः। पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः॥ ३६॥ अथ राजा दशरथस्तेषां दारक्रियां प्रति। चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः॥ ३७॥ तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः। अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः॥ ३८॥ स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह। शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम्॥ ३९॥ तच्छ्रुत्वा वचनं त्रासाद्राज्ञो वेश्म प्रदुद्रुवुः। संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः॥ ४०॥ ते गत्वा राजभवनं विश्वामित्रमृषिं तदा। प्राप्तमावेदयामासुर्नृपायैक्ष्वाकवे तदा॥ ४१॥ तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः। प्रत्युज्जगाम तं हृष्टो ब्रह्माणमिव वासवः॥ ४२॥ तं दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत्॥ ४३॥ स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा। कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम्॥ ४४॥ पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च। कुशलं कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः॥ ४५॥ अपि ते संनताः सर्वे सामन्ता रिपवो जिताः। दैवं च मानुषं चापि कर्म ते साध्वनुष्ठितम्॥ ४६॥ वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः। ऋषींश्चान्यान् यथान्यायं महाभागनुवाच ह॥ ४७॥ ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम्। विविशुः पूजितास्तत्र निषेदुश्च यथार्हतः॥ ४८॥ अथ हृष्टमना राजा विश्वामित्रं महामुनिम्। उवाच परमोदारो हृष्टस्तमभिपूजयन्॥ ४९॥ यथामृतस्य सम्प्राप्तिर्यथा वर्षमनूदके। यथा सदृशदारेषु पुत्रजन्माप्रजस्य च॥ ५०॥ प्रनष्टस्य यथा लाभो यथा हर्षो महोदये। तथैवागमनं मन्ये स्वागतं ते महामुने॥ ५१॥ कं च ते परमं कामं करोमि किमु हर्षितः। पात्रभूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि धार्मिक॥ ५२॥ अद्य मे सफलं जन्म जीवितं च सुजीवितम्॥ ५३॥ पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः॥ ५३॥ ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया। तदद्भुतमिदं ब्रह्मन् पवित्रं परमं मम॥ ५४॥ शुभक्षेत्रगतश्चाहं तव संदर्शनात् प्रभो। ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति॥ ५५॥ इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये। कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक॥ ५६॥ कर्ता चाहमशेषेण दैवतं हि भवान् मम। मम चायमनुप्राप्तो महानभ्युदयो द्विज। तवागमनजः कृत्स्नो धर्मश्चानुत्तमो मम॥ ५७॥ इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवता विनीतमुक्तम्। प्रथितगुणयशा गुणैर्विशिष्टः परमऋषिः परमं जगाम हर्षम्॥ ५८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे श्रीरामाद्यवतारो नाम अष्टादशः सर्गः ॥१-१८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध