home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

एकोनविंशः सर्गः ॥१-१९॥

॥विश्वामित्रवाक्यम्॥

[ यज्ञरक्षणाय रामं मे देहीति विश्वामित्रवचः श्रुत्वा दशरथस्य दुःखं मोहश्च ]

तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम्। हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत॥ १॥ सदृशं राजशार्दूल तवैतद्भुवि नान्यथा। महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः॥ २॥ यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम्। कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवाः॥ ३॥ अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ। तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ॥ ४॥ व्रते तु बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ। मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ॥ ५॥ समांसरुधिरौघेन वेदिं तामभ्यवर्षताम्। अवधूते तथाभूते तस्मिन्नियमनिश्चये॥ ६॥ कृतश्रमो निरुत्साहस्तस्माद् देशादपाक्रमे। न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव॥ ७॥ तथाभूता हि सा चर्या न शापस्तत्र मुच्यते। तत्त्पुत्रं राजशार्दूल रामं सत्यपराक्रमम्॥ ८॥ काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि। शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा॥ ९॥ राक्षसा ये विकर्तारस्तेषामपि विनाशने। श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः॥ १०॥ त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति। न च तौ राममासाद्य शक्तौ स्थातुं कथञ्चन॥ ११॥ न च तौ राघवादन्यो हन्तुमुत्सहते पुमान्। वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ॥ १२॥ रामस्य राजशार्दूल न पर्याप्तौ महात्मनः। न च पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव॥ १३॥ अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ। अहं वेद्मि महात्मानं रामं सत्यपराक्रमम्॥ १४॥ वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः। यदि ते धर्मलाभं च यशश्च परमं भुवि॥ १५॥ स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि। यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः॥ १६॥ वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय। अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि॥ १७॥ दशरात्रं हि यज्ञस्य रामं राजीवलोचनम्। नात्येति कालो यज्ञस्य यथायं मम राघव॥ १८॥ तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः। इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः॥ १९॥ विरराम महातेजा विश्वामित्रो महामुनिः। स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम्॥ २०॥ शोकेन महताविष्टश्चचाल च मुमोह च। लब्धसंज्ञस्तथोत्थाय व्यषीदत भयान्वितः॥ २१॥ इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान्। नरपतिरगमन्महान् महात्मा व्यथितमनाः प्रचचाल चासनात्॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे विश्वामित्रवाक्यं नाम एकोनविंशः सर्गः ॥१-१९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध