home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

विंशः सर्गः ॥१-२०॥

॥दशरथवाक्यम्॥

[ राज्ञोऽनङ्गीकरणं श्रुत्वा विश्वामित्रस्य कोप: ]

तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम्। मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत्॥ १॥ ऊनषोडशवर्षो मे रामो राजीवलोचनः। न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः॥ २॥ इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः। अनया संवृतो गत्वा योद्धाहं तैर्निशाचरैः॥ ३॥ इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः। योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि॥ ४॥ अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि। यावत् प्राणान् धरिष्यामि तावद् योत्स्ये निशाचरैः॥ ५॥ निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता। अहं तत्रगमिष्यामि न रामं नेतुमर्हसि॥ ६॥ बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम्। न चास्त्रबलसंयुक्तो न च युद्धविशारदः॥ ७॥ न चासौ रक्षसां योग्यः कूटयुद्धा हि ध्रुवम्। विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे॥ ८॥ जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि। यदि वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत॥ ९॥ चतुरङ्गसमायुक्तं मया च सह च तं नय। षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक॥ १०॥ दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि। चतुर्णामात्मजानां हि प्रीतिः परमिका मम॥ ११॥ ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि। किंवीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते॥ १२॥ कथंप्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव। कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम्॥ १३॥ मामकैर्वा बलैर्ब्रह्मन् मया वा कूटयोधिनाम्। सर्वं मे शंस भगवन् कथं तेषां मया रणे॥ १४॥ स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः। तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत॥ १५॥ पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः। स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम्॥ १६॥ महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः। श्रूयते च महावीर्यो रावणो राक्षसाधिपः॥ १७॥ साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः। यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः॥ १८॥ तेन संचोदितौ द्वै तु राक्षसौ सुमहाबलौ। मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः॥ १९॥ इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा। न हि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः॥ २०॥ स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके। मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः॥ २१॥ देवदानवगन्धर्वा यक्षाः पतगपन्नगाः। न शक्ता रावणं सोढुं किं पुनर्मानवा युधि॥ २२॥ स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः। तेन चाहं न शक्नोमि संयोद्धुं तस्य वा बलैः॥ २३॥ सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः। कथमप्यमरप्रख्यं संग्रामाणामकोविदम्॥ २४॥ बालं मे तनयं ब्रह्मन्नैव दास्यामि पुत्रकम्। अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः॥ २५॥ यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम्। तयोरन्यतरेणाहं योद्धा स्यां ससुहृद्गणः। अन्यथा त्वनुनेष्यामि भवन्तं सह बान्धवैः॥ २६॥ इति नरपतिजल्पनाद् द्विजेन्द्रं कुशिकसुतं सुमहान् विवेश मन्युः। सुहुत इव मखेऽग्निराज्यसिक्तः समभवदुज्ज्वलितो महर्षिवह्निः॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे दशरथवाक्यं नाम विंशः सर्गः ॥१-२०॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध