home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

एकविंशः सर्गः ॥१-२१॥

॥विशिष्ठवाक्यम्॥

[ विश्वामित्रस्य सरोषं वचनमाकर्ण्य वसिष्ठेन प्रबोधनम् ]

तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्। समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम्॥ १॥ पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि। राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः॥ २॥ यदीदं ते क्षमं राजन् गमिष्यामि यथागतम्। मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः॥ ३॥ तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः। चचाल वसुधा कृत्स्ना विवेश च भयं सुरान्॥ ४॥ त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः। नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत्॥ ५॥ इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः। धृतिमान् सुव्रतः श्रीमान् न धर्मं हातुमर्हसि॥ ६॥ त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः। स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि॥ ७॥ शंश्रुत्यैवं करिष्यामित्यकुर्वाणस्य राघव। इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय॥ ८॥ कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः। गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा॥ ९॥ एष विग्रहवान् धर्म एष वीर्यवतां वरः। एष बुद्ध्याधिको लोके तपसश्च परायणम्॥ १०॥ एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे। नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन॥ ११॥ न देवा नर्षयः केचिन्नासुरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥ १२॥ सर्वास्त्राणि भृशाश्वस्य पुत्राः परमधार्मिकाः। कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति॥ १३॥ तेऽपि पुत्राः भृशाश्वस्य प्रजापतिसुतासुताः। नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः॥ १४॥ जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे। ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम्॥ १५॥ पञ्चाशतं सुताँल्लेभे जया नाम वराङ्गनाः। वधायासुरसैन्यानामप्रमेयान् कामरूपिणः॥ १६॥ सुप्रभा जनयामास पुत्रान् पञ्चाशतं पुनः। संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः॥ १७॥ तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः। अपूर्वाणां च जनने शक्तो भूयः स धर्मवित्॥ १८॥ तेनास्य मुनिमुख्यस्य सर्वज्ञस्य महात्मनः। न किञ्चिदप्यविदितं भूतं भव्यं च राघव॥ १९॥ एवंवीर्यो महातेजा विश्वामित्रो महायशाः। न रामगमने राजन् संशयं गन्तुमर्हसि॥ २०॥ तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः। तव पुत्रहितार्थाय त्वामुपेत्याभियाचते॥ २१॥ इति मुनिवचनात् प्रसन्नचित्तो रघुवृषभश्च मुमोद भास्वराङ्गः। गमनमभिरुरोच राघवस्य प्रथितयशाः कुशिकात्मजाय बुद्ध्या॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे वसिष्ठवाक्यं नाम एकविंशः सर्गः ॥१-२१॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध