मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः। राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः॥ १॥ पितुर्वचननिर्देशात् पितुर्वचनगौरवात्। वचनं कौशिकस्येति कर्तव्यमविशङ्कया॥ २॥ अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना। पित्रा दशरथेनाहं नावज्ञेयं हि तद्वचः॥ १३ सोऽहं पितुर्वचः श्रुत्वा शासनाद् ब्रह्मवादिनः। करिष्यामि न संदेहस्ताटकावधमुत्तमम्॥ ४॥ गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च। तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः॥ ५॥ एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिन्दमः। ज्याघोषमकरोत् तीव्रं दिशः शब्देन नादयन्॥ ६॥ तेन शब्देन वित्रस्तास्ताटकावनवासिनः। ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता॥ ७॥ तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता। श्रुत्वा चाभ्यद्रवद्वेगाद्यतः शब्दो विनिःसृतः॥ ८॥ तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम्। प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत॥ ९॥ पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः। भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च॥ १०॥ एतां पश्य दुराधर्षां मायाबलसमन्विताम्। विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम्॥ ११॥ न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम्। वीर्यं चास्या गतिं चापि हनिष्यामिति मे मतिः॥ १२॥ एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता। उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत॥ १३॥ विश्वामित्रस्तु ब्रह्मर्षिर्हुंकारेणाभिभर्त्स्य ताम्। स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत॥ १४॥ उद्धून्वाना रजो घोरं ताटका राघवावुभौ। रजोमोहेन महता मुहूर्तं सा व्यमोहयत्॥ १५॥ ततो मायां समास्थाय शिलावर्षेण राघवौ। अवाकिरत् सुमहता ततश्चुक्रोध राघवः॥ १६॥ शिलावर्षं महत् तस्याः शरवर्षेण राघवः। प्रतिवार्योपधावन्त्याः करौ चिच्छेद पत्रिभिः॥ १७॥ ततश्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम्। सौमित्रिरकरोत् क्रोधाद्धृतकर्णाग्रनासिकाम्॥ १८॥ कामरूपधरा सद्यः कृत्वा रूपाण्यनेकशः। अन्तर्धानं गता यक्षी मोहयन्ती स्वमायया॥ १९॥ अश्मवर्षं विमुञ्चन्ती भैरवं विचचार ह। ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः॥ २०॥ दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत्। अलं ते घृणया राम पापैषा दुष्टचारिणी॥ २१॥ यज्ञविघ्नकरी यक्षी पुरा वर्धेत मायया। वध्यतां तावदेवैषा पुरा संध्या प्रवर्तते॥ २२॥ रक्षांसि संध्याकालेषु दुर्धर्षाणि भवन्ति हि। इत्युक्तस्तु तदा यक्षीमश्मवृष्ट्याभिवर्षतीम्॥ २३॥ दर्शयन् शब्दवेधित्वं तां रुरोध स सायकैः। सा रुद्धा बाणजालेन मायाबलसमन्विता॥ २४॥ अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेदुषी। तामापतन्तीं वेगेन विक्रान्तामशनीमिव॥ २५॥ शरेणोरसि विव्याध सा पपात ममार च। तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा॥ २६॥ साधु साध्विति काकुत्स्थं सुराश्च समपूजयन्। उवाच परमप्रीतः सहस्राक्षः पुरन्दरः॥ २७॥ सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन्। मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः॥ २८॥ तोषिताः कर्मणानेन स्नेहं दर्शय राघवे। प्रजापतेर्भृशाश्वस्य पुत्रान् सत्यपराक्रमान्॥ २९॥ तपोबलभृतो ब्रह्मन् राघवाय निवेदय। पात्रभूतश्च ते ब्रह्मंस्तवानुगमने धृतः॥ ३०॥ कर्तव्यं च महत् कर्म सुराणां राजसूनुना। एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा यथागतम्॥ ३१॥ विश्वामित्रं पूजयन्तस्ततः संध्या प्रवर्तते। ततो मुनिवरः प्रीतस्ताटकावधतोषितः॥ ३२॥ मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत्। इहाद्य रजनीं राम वसेम शुभदर्शन॥ ३३॥ श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम। विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः॥ ३४॥ उवास रजनीं तत्र ताटकाया वने सुखम्। मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि। रमणीयं विबभ्राज यथा चैत्ररथं वनम्॥ ३५॥ निहत्य तां यक्षसुतां स रामः प्रशस्यमानः सुरसिद्धसङ्घैः। उवास तस्मिन् मुनिना सहैव प्रभातवेलां प्रतिबोध्यमानः॥ ३६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे ताटकावधो नाम षड्विंशः सर्गः ॥१-२६॥