अथ तां रजनीमुष्य विश्वामित्रो महायशाः। प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम्॥ १॥ परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः। प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः॥ २॥ देवासुरगणान् वापि सगन्धर्वोरगानपि। यैरमित्रान् प्रसह्याजौ वशीकृत्य विजेष्यसि॥ ३॥ तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः। दण्डचक्रं महद् दिव्यं तव दास्यामि राघव॥ ४॥ धर्मचक्रं ततो वीर कालचक्रं तथैव च। विष्णुचक्रं तथात्युग्रमैन्द्रमस्त्रं तथैव च॥ ५॥ वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा। अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव॥ ६॥ ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम्। गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे॥ ७॥ प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज। धर्मपाशमहं राम कालपाशं तथैव च॥ ८॥ पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम्। अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन॥ ९॥ ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा। आग्नेयमस्त्रं दयितं शिखरं नाम नामतः॥ १०॥ वायव्यं प्रथमं नाम ददामि तव चानघ। अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च॥ ११॥ शक्तिद्वयं च काकुत्स्थ ददामि तव राघव। कङ्कालं मुसलं घोरं कापालमथ किङ्कणम्॥ १२॥ वधार्थं रक्षसां यानि ददाम्येतानि सर्वशः। वैद्याधरं महास्त्रं च नन्दनं नाम नामतः॥ १३॥ असिरत्नं महाबाहो ददामि नृवरात्मज। गान्धर्वमस्त्रं दयितं मानवं नाम नामतः॥ १४॥ प्रस्वापनप्रशमने दद्मि सौरं च राघव। वर्षणं शोषणं चैव संतापनविलापने॥ १५॥ मादनं चैव दुर्धर्षं कन्दर्पदयितं तथा। पैशाचमस्त्रं दयितं मोहनं नाम नामतः॥ १६॥ प्रतीच्छ नरशार्दूल राजपुत्र महायशः तामसं नरशार्दूल सौमनं च महाबलम्॥ १७॥ संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज। सत्यमस्त्रं महाबाहो तथा मायाधरं परम्॥ १८॥ सौरं तेजःप्रभं नाम परतेजोऽपकर्षणम्। सौम्यास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं च दारुणम्॥ १९॥ दारुणं च भगस्यापि शीतेषुमथ मानवम्। एतान् राम महाबाहो कामरूपान् महाबलान्॥ २०॥ गृहाण परमोदारान् क्षिप्रमेव नृपात्मज। स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा॥ २१॥ ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम्। सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम्॥ २२॥ तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत्। जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः॥ २३॥ उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम्। ऊचुश्च मुदिता सर्वे रामं प्राञ्जलयस्तदा॥ २४॥ इमे स्म परमोदार किंकरास्तव राघव। यद्यदिच्छसि भद्रं ते तत् सर्वं करवाम वै॥ २५॥ ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः। प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना॥ २६॥ मनसा मे भविष्यध्वमिति तानभ्यचोदयत्। ततः प्रीतमना रामो विश्वामित्रं महामुनिम्। अभिवाद्य महातेजा गमनायोपचक्रमे॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे अस्त्रग्रामप्रदानम् नाम सप्तविंशः सर्गः ॥१-२७॥