प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः। गच्छन्नेवाथ काकुत्स्थो विश्वामित्रमथाब्रवीत्॥ १॥ गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरासुरैः। अस्त्राणां त्वहमिच्छामि संहारान् मुनिपुङ्गव॥ २॥ एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामतिः। संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः॥ ३॥ सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च। प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम्॥ ४॥ लक्ष्यालक्ष्याविमौ चैव दृढनाभसुनाभकौ। दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ॥ ५॥ पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ। ज्योतिषं कृशनं चैव नैरास्यविमलावुभौ॥ ६॥ यौगन्धरविनिद्रौ च दैत्यप्रमथनौ तथा। शुचिबाहुर्महाबाहुर्निष्कुलिर्विरुचिस्तथा॥ ७॥ सार्चिर्माली धृतिमाली वृत्तिमान् रुचिरस्तथा। पित्र्यं सौमनसं चैव विधूतमकरावुभौ॥ ८॥ करवीरकरं चैव धनधान्यौ च राघव। कामरूपं कामरुचिं मोहनं मारणं तथा॥ ९॥ जृम्भकं सर्वनाभं च संधानवरणौ तथा। भृशाश्वतनयान् राम भास्वरान् कामरूपिणः॥ १०॥ प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव। बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना॥ ११॥ दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः। केचिदङ्गारसदृशाः केचिद् धूमोपमास्तथा॥ १२॥ चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा। रामं प्राञ्जलयो भूत्वा ब्रुवन् मधुरभाषिणः॥ १२॥ इमे स्म नरशार्दूल शाधि किं करवाम ते। मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ॥ १४॥ गम्यतामिति तानाह यथेष्टं रघुनन्दनः। अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम्॥ १५॥ एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम्। स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम्॥ १६॥ गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत्। किन्न्वेतन्मेघसंकाशं पर्वतस्याविदूरतः॥ १७॥ वृक्षषण्डमिवाभाति परं कौतूहलं हि मे। दर्शनीयं मृगाकीर्णं मनोहरमतीव च॥ १८॥ नानाप्रकारैः शकुनैर्वल्गुनादैरलङ्कृतम्। निःसृताः स्म मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात्॥ १९॥ अनया त्ववगच्छामि देशस्य सुखवत्तया। सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम्॥ २०॥ संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः। तव यज्ञस्य विघ्नाय दुरात्मानो महामुने॥ २१॥ भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी। रक्षितव्या क्रिया ब्रह्मन् मया वध्याश्च राक्षसाः। एतत् सर्वं मुनिश्रेष्ठ श्रोतुमिच्छामि सुव्रत॥ २२॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे अस्त्रसंहारग्रहणं नाम अष्टाविंशः सर्गः ॥१-२८॥