home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

एकोनत्रिंशः सर्गः ॥१-२९॥

॥सिद्धाश्रम प्रवेशः॥

[ विश्वामित्रेण श्रीरामं प्रति सिद्धाश्रमसम्बन्धिपूर्व- वृत्तवर्णनं ताभ्यां राघवाभ्यां सह स्वाश्रममुपेत्य विश्वामित्रस्य तत्रत्यैर्मुनिभिः पूजनम् ]

अथ तस्याप्रमेयस्य वचनं परिपृच्छतः। विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे॥ १॥ इह राम महाबाहो विष्णुर्देववरः प्रभुः। वर्षाणि सुबहूनीह तथा युगशतानि च॥ २॥ तपश्चरणयोगार्थमुवास सुमहातपाः। एष पूर्वाश्रमो राम वामनस्य महात्मनः॥ ३॥ सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः। एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः॥ ४॥ निर्जित्य दैवतगणान् सेन्द्रांश्च सहमरुद्गणान्। कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः॥ ५॥ यज्ञं चकार सुमहानसुरेन्द्रो महाबलः। बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः॥ ६॥ समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे। बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम्॥ ७॥ असमाप्ते क्रतौ तस्मिन् स्वकार्यमभिपद्यताम्। ये चैनमभिवर्तन्ते याचितार इतस्ततः॥ ८॥ यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति। स त्वं सुरहितार्थाय मायायोगमुपागतः॥ ९॥ वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम्। एतस्मिन्नन्तरे राम कश्यपोऽग्निसमप्रभः॥ १०॥ अदित्या सहितो राम दीप्यमान इवौजसा। देवीसहायो भगवान् दिव्यं वर्षसहस्रकम्॥ ११॥ व्रतं समाप्य वरदं तुष्टाव मधुसूदनम्। तपोमयं तपोराशिं तपोमूर्तिं तपाधनम्॥ १२॥ तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम्। शरीरे तव पश्यामि जगत् सर्वमिदं प्रभो॥ १३॥ त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः। तमुवाच हरिः प्रीतः कश्यपं धूतकल्मषम्॥ १४॥ वरं वरय भद्रं ते वरार्होऽसि मतो मम। तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत्॥ १५॥ अदित्या देवतानां च मम चैवानुयाचतः। वरं वरद सुप्रीतो दातुमर्हसि सुव्रत॥ १६॥ पुत्रत्वं गच्छ भगवन्नदित्यां मम चानघ। भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन॥ १७॥ शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि। अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति॥ १८॥ सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः। अथ विष्णुर्महातेजा अदित्यां समजायत॥ १९॥ वामनं रूपमास्थाय वैरोचनिमुपागमत्। त्रीन् क्रमानथ भिक्षित्वा प्रतिगृह्य च मेदिनीम्॥ २०॥ आक्रम्य लोकाँल्लोकात्मा सर्वलोकहिते रतः। महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा॥ २१॥ त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः। तेनैष पूर्वमाक्रान्त आश्रमः श्रमनाशनः॥ २२॥ मयापि भक्त्या तस्यैव वामनस्योपभुज्यते। एनमाश्रममायान्ति राक्षसा विघ्नकारिणः॥ २३॥ अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः। अथ गच्छामहे राम सिद्धाश्रममनुत्तमम्॥ २४॥ तदाश्रमपदं तात तवाप्येतद् यथा मम। इत्युक्त्वा परमप्रीतो गृह्य रामं सलक्ष्मणम्॥ २५॥ प्रविशन्नाश्रमपदं व्यरोचत महामुनिः। शशीव गतनीहारः पुनर्वसुसमन्वितः॥ २६॥ तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः। उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन्॥ २७॥ यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते। तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम्॥ २८॥ मुहूर्तमथ विश्रान्तौ राजपुत्रावरिन्दमौ। प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ॥ २९॥ अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव। सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव॥ ३०॥ एवमुक्तो महातेजा विश्वामित्रो महानृषिः। प्रविवेश ततो दीक्षां नियतो नियतेन्द्रियः॥ ३१॥ कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ। प्रभातकाले चोत्थाय पूर्वां संध्यामुपास्य च॥ ३२॥ स्पृष्टोदकौ शुची जप्यं समाप्य नियमेन च। हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम्॥ ३३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे सिद्धाश्रमप्रवेशो नाम एकोनत्रिंशः सर्गः ॥१-२९॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध