अथ तौ देशकालज्ञौ राजपुत्रावरिन्दमौ। देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः॥ १॥ भगवञ्श्रोतुमिच्छावो यस्मिन् काले निशाचरौ। संशिक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम्॥ २॥ एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया। सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ॥ ३॥ अद्य प्रभृति षड्रात्रं रक्षतां राघवौ युवाम्। दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति॥ ४॥ तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ। अनिद्रौ षडहोरात्रं तपोवनमरक्षताम्॥ ५॥ उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ। ररक्षतुर्मुनिवरं विश्वामित्रमरिन्दमौ॥ ६॥ अथ काले गते तस्मिन् षष्ठेऽहनि समागते। सौमित्रिमब्रवीद् रामो यत्तो भव समाहितः॥ ७॥ रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया। प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता॥ ८॥ सदर्भचमसस्रुक्का स समित्कुसुमोच्चया। विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा॥ ९॥ मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते। आकाशे च महाञ्शब्दः प्रादुरासीद् भयानकः॥ १०॥ आवार्य गगनं मेघो यथा प्रावृषि निर्गतः। तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम्॥ ११॥ मारीचश्च सुबाहुश्च तयोरनुचरास्तथा। आगम्य भीमसंकाशा रुधिरौघानवासृजन्॥ १२॥ तां तेन रुधिरौघेण वेदीं वीक्ष्य समुक्षिताम्। सहसाभिद्रुतो रामस्तावपश्यत् ततो दिवि॥ १३॥ तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः। लक्ष्मणं त्वथ सम्प्रेक्ष्य रामो वचनमब्रवीत्॥ १४॥ पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान्। मानवास्त्रसमाधूताननिलेन यथा घनान्॥ १५॥ करिष्यामि न संदेहो नोत्सहे हन्तुमीदृशान्। इत्युक्त्वा वचनं रामश्चापे संधाय वेगवान्॥ १६॥ मानवं परमोदारमस्त्रं परमभास्वरम्। चिक्षेप परमक्रुद्धो मारीचोरसि राघवः॥ १७॥ स तेन परमास्त्रेण मानवेन समाहतः। सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे॥ १८॥ विचेतनं विघूर्णन्तं शीतेषुबलपीडितम्। निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत्॥ १९॥ पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम्। मोहयित्वा नयत्येनं न च प्राणैर्व्ययुज्यत॥ २०॥ इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः। राक्षसान् पापकर्मस्थान् यज्ञघ्नान् पिशिताशनान्॥ २१॥ इत्युक्त्वा लक्ष्मणं चाशु लाघवं दर्शयन्निव। संगृह्य सुमहच्चापमाग्नेयं रघुनन्दनः॥ २२॥ सुबाहूरसि चिक्षेप स विद्धः प्रापतद् भुवि। शेषान् वायव्यमादाय निजघान महायशाः॥ २३॥ राघवः परमोदारो मुनीनां मुदमावहन्। स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः॥ २४॥ ऋषिभिः पूजितस्तत्र यथेन्द्रो विजयी पुरा। अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः॥ २५॥ निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया॥ २६॥ सिद्धाश्रममिदं सत्यं कृतं वीर महायशः। स हि रामं प्रशस्यैवं ताभ्यां संध्यामुपागमत्॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे यज्ञरक्षणम् नाम त्रिंशः सर्गः ॥१-३०॥