home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

तृतीयः सर्गः॥१-३॥

॥काव्यसङ्क्षेपः॥

[ रामायणकाव्यगतानां विषयाणां संक्षेपेणोल्लेख: ]

श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम्। व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः॥ १॥ उपस्पृश्योदकं सम्यङ्मुनिः स्थित्वा कृताञ्जलिः। प्राचीनाग्रेषु दर्भेषु धर्मेणावेक्षते गतिम्॥ २॥ रामलक्ष्मणसीताभी राज्ञा दशरथेन च। सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः॥ ३॥ हसितं भाषितं चैव गतिर्या यच्च चेष्टितम्। तत्सर्वं धर्मवीर्येण यथावत् संप्रपश्यति॥ ४॥ स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने। सत्यसन्धेन रामेण तत्सर्वं चान्ववैक्षत॥ ५॥ ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः। पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा॥ ६॥ तत्सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महाद्युतिः। अभिरामस्य रामस्य चरितं कर्तुमुद्यतः॥ ७॥ कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम्। समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम्॥ ८॥ स यथा कथितं पूर्वं नारदेन महर्षिणा। रघुवंशस्य चरितं चकार भगवानृषिः॥ ९॥ जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम्। लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम्॥ १०॥ नानाचित्रकथाश्चान्या विश्वामित्रसमागमे। जानक्याश्च विवाहं च धनुषश्च विभेदनम्॥ ११॥ रामरामविवादं च गुणान् दाशरथेस्तथा। तथा रामाभिषेकं च कैकेय्या दुष्टभावताम्॥ १२॥ विघातं चाभिषेकस्य रामस्य च विवासनम्। राज्ञः शोकविलापं च परलोकस्य चाश्रयम्॥ १३॥ प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम्। निषादाधिपसंवादं सूतोपावर्तनं तथा॥ १४॥ गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम्। भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम्॥ १५॥ वास्तुकर्मनिवेशं च भरतागमनं तथा। प्रसादनं च रामस्य पितुश्च सलिलक्रियाम्॥ १६॥ पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम्। दण्डकारण्यगमनं विराधस्य वधं तथा॥ १७॥ दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् अनसूयासहास्यां च अङ्गरागस्य चार्पणम्॥ १८॥ दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा। शूर्पणख्याश्च संवादं विरूपकरणं तथा॥ १९॥ वधं खरत्रिशिरसोरुत्थानं रावणस्य च। मारीचस्य वधं चैव वैदेह्या हरणं तथा॥ २०॥ राघवस्य विलापं च गृध्रराजनिबर्हणम्। कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम्॥ २१॥ शबरीदर्शनं चैव हनुमद्दर्शनं तथा। विलापं चैव पम्पायां राघवस्य महात्मनः॥ २२॥ ऋष्यमूकस्य गमनं सुग्रीवेण समागमम्। प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम्॥ २३॥ वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ताराविलापं समयं वर्षरात्रनिवासनम्॥ २४॥ कोपं राघवसिंहस्य बलानामुपसंग्रहम्। दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम्॥ २५॥ अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्। प्रायोपवेशनं चापि संपातेश्चैव दर्शनम्॥ २६॥ पर्वतारोहणं चैव सागरस्य च लङ्घनम्। समुद्रवचनाच्चैव मैनाकस्यापि दर्शनम्॥ २७॥ राक्षसीतर्जनं चैव छायाग्राहस्य दर्शनम्। सिंहिकायाश्च निधनं लङ्कामलयदर्शनम्॥ २८॥ रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम्। आपानभूमिगमनमवरोधस्य दर्शनम्॥ २९॥ दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम्। अशोकवनिकायानं सीतायाश्चापि दर्शनम्॥ ३०॥ अभिज्ञानप्रदानं च सीतायाश्चाभिभाषणम्। राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्॥ ३१॥ मणिप्रदानं सीताया वृक्षभङ्गं तथैव च। राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम्॥ ३२॥ ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्। प्रतिप्लवनमेवाथ मधूनां हरणं तथा॥ ३३॥ राघवाश्वासनं चैव मणिनिर्यातनं तथा। संगमं च समुद्रेण नलसेतोश्च बन्धनम्॥ ३४॥ प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्। विभीषणेन संसर्गं वधोपायनिवेदनम्॥ ३५॥ कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्। रावणस्य विनाशं च सीतावाप्तिमरेः पुरे॥ ३६॥ बिभीषणाभिषेकं च पुष्पकस्य निवेदनम्। अयोध्यायाश्च गमनं भरतेन समागमम्॥ ३७॥ रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्। स्वराह्यरञ्जनं चैव वैदेह्याश्च विसर्जनम्॥ ३८॥ अनागतं च यत् किंञ्चिद् रामस्य वसुधातले तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः॥ ३९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे काव्यसङ्क्षेपो नाम तृतीयः सर्गः॥१-३॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध