प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः। चकार चरितं कृत्स्नं विचित्रपदमर्थवत्॥ १॥ चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः। तथा सर्गशतान् पञ्च षट् काण्डानि तथोत्तरम्॥ २॥ कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम्। चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः॥ ३॥ तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः। अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ॥ ४॥ कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ। भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ॥ ५॥ स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ। वेदोपबृंहणार्थाय तावग्राहयत प्रभुः॥ ६॥ काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्। पौलस्त्यवधमित्येवं चकार चरितव्रतः॥ ७॥ पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम्। जातिभिः सप्तभिर्बद्धं तन्त्रीलयसमन्वितम्॥ ८॥ रसैः शृङ्गारकरुणहास्यरौद्रभयानकैः। वीरादिभिश्च संयुक्तं काव्यमेतदगायताम्॥ ९॥ तौ तु गान्धर्वतत्त्वज्ञौ मूर्च्छनास्थानकोविदौ। भ्रातरौ स्वरसम्पन्नावश्विनाविव रूपिणौ॥ १०॥ रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ। बिम्बादिवोत्थितौ बिम्बौ रामदेहात् तथापरौ॥ ११॥ तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम्। वाचो विधेयं तत् सर्वं कृत्वा काव्यमनिन्दितौ॥ १२॥ ऋषीणां च द्विजातीनां साधूनां च समागमे। यथोपदेशं तत्त्वज्ञौ जगतुस्तै समाहितौ॥ १३॥ महात्मानौ महाभागौ सर्वलक्षणलक्षितौ। तौ कदाचित् समेतानामृषीणां भावितात्मनाम्॥ १४॥ आसीनानां समीपस्थाविदं काव्यमगायताम्। तत् श्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः॥ १५॥ साधु साध्विति तावूचुः परं विस्मयमागताः। ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः॥ १६॥ प्रशशंसुः प्रशस्तव्यौ गायन्तौ तौ कुशीलवौ। अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः॥ १७॥ चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम्। प्रविश्य तावुभौ सुष्ठु तथाभावमगायताम्॥ १८॥ सहितौ मधुरं रक्तं सम्पन्नं स्वरसंपदा। एवं प्रशस्यमानौ तौस्तपः श्लाघ्यैर्महर्षिभिः॥ १९॥ संरक्ततरमत्यर्थं मधुरं तावगायताम्। प्रीतः कश्चिन्मुनिस्ताभ्यामुस्थितः कलशं ददौ॥ २०॥ प्रसन्नो वल्कलं कश्चिद् ददौ ताभ्यां महायशाः। अन्यः कृष्णाजिनं प्रादान्मौञ्जीमन्यो महामिनिः॥ २१॥ कश्चित् कमण्डलुं प्रादाद्यज्ञसूत्रमथापरः। औदुम्बरीं बृसिमन्यो जपमालामथापरः॥ २२॥ बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः। ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः॥ २३॥ काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः। जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः॥ २४॥ यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथापरः। आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः॥ २५॥ ददुश्चैवं वरान् सर्वे मुनयः सत्यवादिनः। आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम्॥ २६॥ परं कवीनामाधारं समाप्तं च यथाक्रमम्। अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ॥ २७॥ आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम्। प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायकौ॥ २८॥ रथ्यासु राजमार्गेषु ददर्श भरताग्रजः। स्ववेश्म चानीय ततो भ्रातरौ च कुशीलवौ॥ २९॥ पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः। आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः॥ ३०॥ उपोपविष्टः सचिवैर्भ्रातृभिश्च परंतपः। दृष्ट्वा तु रूपसम्पन्नौ तावुभौ नियतस्तदा॥ ३१॥ उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा। श्रूयतामेदमाख्यानमनयोर्देववर्चसोः॥ ३२॥ विचित्रार्थपदं सम्यग्गायकौ समचोदयत्। तौ चापि मधुरं व्यक्तं स्वञ्चितायतनिःस्वनम्॥ ३३॥ तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम्। ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च। श्रोत्राश्रयसुखं गेयं तद् बभौ जनसंसदि॥ ३४॥ इमौ मुनी पार्थिवलक्षणान्वितौ। कुशीलवौ चैव महातपस्विनौ। ममापि तद् भूतिकरं प्रचक्षते। महानुभावं चरितं निबोधत॥ ३५॥ ततस्तु तौ रामवचः प्रचोदिता- वगायतां मार्गविधानसम्पदा। स चापि रामः परिषद्गतः शनै- र्बुभूषया सक्तमना बभूव ह॥ ३६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे श्रीरामयणगानं नाम चतुर्थः सर्गः॥१-४॥