home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

पञ्चमः सर्गः॥१-५॥

॥अयोध्यावर्णना॥

[ दशरथपालिताया अयोध्याया उत्कर्षस्य वर्णनम् ]

सर्वा पूर्वमियं येषामासीत् कृत्स्ना वसुंधरा। प्रजापतिमुपादाय नृपाणां जयशालिनाम्॥ १॥ येषां स सगरो नाम सागरो येन खानितः। षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन्॥ २॥ इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम्। महदुत्पन्नमाख्यानं रामायणमिति श्रुतम्॥ ३॥ तदिदं वर्तयिष्यावः सर्वं निखिलमादितः। धर्मकामार्थसहितं श्रोतव्यमनसूयता॥ ४॥ कोसलो नाम मुदितः स्फीतो जनपदो महान्। निविष्टः सरयूतीरे प्रभूतधनधान्यवान्॥ ५॥ अयोध्या नाम नगरी तत्रासील्लोकविश्रुता। मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्॥ ६॥ आयता दश च द्वे च योजनानि महापुरी। श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा॥ ७॥ राजमार्गेण महता सुविभक्तेन शोभिता। मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः॥ ८॥ तां तु राजा दशरथो महाराष्ट्रविवर्धनः। पुरीमावासयामास दिवं देवपतिर्यथा॥ ९॥ कवाटतोरणवतीं सुविभक्तान्तरापणाम्। सर्वयन्त्रायुधवतीमुषितां सर्वशिल्पिभिः॥ १०॥ सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम्। उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम्॥ ११॥ वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम्। उद्यानाम्रवणोपेतां महतीं सालमेखलाम्॥ १२॥ दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम्। वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा॥ १३॥ सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम्। नानादेशनिवासैश्च वणिग्भिरुपशोभिताम्॥ १४॥ प्रासादै रत्नविकृतैः पर्वतैरिव शोभिताम्। कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम्॥ १५॥ चित्रामष्टापदाकारां वरनारीगणैर्युताम्। सर्वरत्नसमाकीर्णां विमानगृहशोभिताम्॥ १६॥ गृहगाढामविच्छिद्रां समभूमौ निवेशिताम्। शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम्॥ १७॥ दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा। नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम्॥ १८॥ विमानमिव सिद्धानां तपसाधिगतं दिवि। सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम्॥ १९॥ ये च बाणैर्न विध्यन्ति विविक्तमपरावरम्। शब्दवेध्यं च विततं लघुहस्ता विशारदाः॥ २०॥ सिंहव्याघ्रवराहाणां मत्तानां नर्दतां वने। हन्तारो निशितैर्बाणैर्बलाद् बाहुबलैरपि॥ २१॥ तादृशानां सहस्रैस्तामभिपूर्णां महारथैः। पुरीमावासयामास राजा दशरथस्तदा॥ २२॥ तामग्निमद्भिर्गुणवद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः। सहस्रदैः सत्यरतैर्महात्मभि- र्महर्षिकल्पैर्ऋषिभिश्च केवलैः॥ २३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे अयोध्यावर्णना नाम पञ्चमः सर्गः॥१-५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध