home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

षष्ठः सर्गः ॥१-६॥

॥राजवर्णना॥

[ राज्ञो दशरथस्य शासनकालेऽयोध्यायास्तत्रत्यजनानां चोत्कृष्टस्थितेर्वर्णनम् ]

तस्यां पुर्यामयोध्यायां वेदवित् सर्वसंग्रहः। दीर्घदर्शी महातेजाः पौरजानपदप्रियः॥ १॥ इक्ष्वाकूणामतिरथो यज्वा धर्मपरो वशी। महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुतः॥ २॥ बलवान्निहतामित्रो मित्रवान् विजितेन्द्रियः। धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः॥ ३॥ यथा मनुर्महातेजा लोकस्य परिरक्षिता। तथा दशरथो राजा वसञ्जगदपालयत्॥ ४॥ तेन सत्याभिसन्धेन त्रिवर्गमनुतिष्ठता। पालिता सा पुरी श्रेष्ठा इन्द्रेणेवामरावती॥ ५॥ तस्मिन् पुरवरे हृष्टा धर्मात्मानो बहुश्रुताः। नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः॥ ६॥ नाल्पसंनिचयः कश्चिदासीत् तस्मिन् पुरोत्तमे। कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान्॥ ७॥ कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित्। द्रष्टुं शक्यमयोध्यायां नाविद्वान् न च नास्तिकः॥ ८॥ सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः। उदिताः शीलवृत्ताभ्यां महर्षय इवामलाः॥ ९॥ नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान्। नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते॥ १०॥ नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक्। नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान्॥ ११॥ नानाहिताग्निर्नायज्वा न क्षुद्रो वा न तस्करः। कश्चिदासीदयोध्यायां न चावृत्तो न संकरः॥ १२॥ स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः। दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे॥ १३॥ न नास्तिको नानृतको न कश्चिदबहुश्रुतः। नासूयको न चाशक्तो नाविद्वान् विद्यते तदा॥ १४॥ नाषडङ्गविदत्रास्ति नाव्रतो नासहस्रदः। न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन॥ १५॥ कश्चिन्नरो वा नारी वा नाश्रीमान् नाप्यरूपवान्। द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान्॥ १६॥ वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः। कृतज्ञाश्च वदान्याश्च शूराः विक्रमसंयुताः॥ १७॥ दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः। सहिताः पुत्रपौत्रैश्च नित्यं स्त्रीभिः पुरोत्तमे॥ १८॥ क्षत्रं ब्रह्ममुखं चासीद् वैश्याः क्षत्रमनुव्रताः। शूद्राः स्वधर्मनिरतास्त्रीन् वर्णानुपचारिणः॥ १९॥ सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता। यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता॥ २०॥ योधानामग्निकल्पानां पेशलानाममर्षिणाम्। सम्पूर्णा कृतविद्यानां गुहा केसरिणामिव॥ २१॥ काम्भोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः। वनायुजैर्नदीजैश्च पूर्णा हरिहयोत्तमैः॥ २२॥ विन्ध्यपर्वतजैर्मत्तैः पूर्णा हैमवतैरपि। मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः॥ २३॥ ऐरावतकुलीनैश्च महापद्मकुलैस्तथा। अञ्जनादपि निष्पन्नैर्वामनादपि च द्विपैः॥ २४॥ भद्रैर्मन्द्रैर्मृगैश्चैव भद्रमन्द्रमृगैस्तथा। भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी॥ २५॥ नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः। सा योजने च द्वे भूयः सत्यनामा प्रकाशते॥ २६॥ तां पुरीं स महातेजा राजा दशरथो महान्। शशास शमितामित्रो नक्षत्राणीव चन्द्रमाः॥ २७॥ तां सत्यनामां दृढतोरणार्गलां गृहैर्विचित्रैरुपशोभितां शिवाम्। पुरीमयोध्यां नृपसिंहसंकुलां शशास वै शक्रसमो महीपतिः॥ २८॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे राजवर्णना नाम षष्ठः सर्गः ॥१-६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध