home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

चतुस्त्रिंशः सर्गः ॥१-३४॥

॥विश्वामित्रवंशवर्णनम्॥

[ गाधेरुत्पत्तिः कौशिक्याः प्रशंसा विश्वामित्रेण कथां समाप्य निशीथस्य वर्णनं सर्वेभ्यः शयितुमनुज्ञां प्रदाय स्वयमपि तस्य शयनम् ]

कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव। अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत्॥ १॥ इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम्। उवाच परमोदारः कुशो ब्रह्मसुतस्तदा॥ २॥ पुत्र ते सदृशः पुत्रो भविष्यति सुधार्मिकः। गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम्॥ ३॥ एवमुक्त्वा कुशो राम कुशनाभं महीपतिम्। जगामाकाशमाविश्य ब्रह्मलोकं सनातनम्॥ ४॥ कस्यचित् त्वथ कालस्य कुशनाभस्य धीमतः। जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः॥ ५॥ स पिता मम काकुत्स्थ गाधिः परमधार्मिकः। कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन॥ ६॥ पूर्वजा भगिनी चापि मम राघव सुव्रता। नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता॥ ७॥ सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी। कौशिकी परमोदारा सा प्रवृत्ता महानदी॥ ८॥ दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता लोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम॥ ९॥ ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम् भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन॥ १०॥ सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता पतिव्रता महाभागा कौशिकी सरितां वरा॥ ११॥ अहं हि नियमाद्राम हित्वा तां समुपागतः सिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा॥ १२॥ एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि॥ १३॥ गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम। निद्रामभ्येहि भद्रं ते मा भूद् विघ्नोऽध्वनीह नः॥ १४॥ निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः। नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन॥ १५॥ शनैर्वियुज्यते सन्ध्या नभो नेत्रैरिवावृतम्। नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १६॥ १६॥ उत्तिष्ठते च शीतांशुः शशी लोकतमोनुदः। ह्लादयन् प्राणिनां लोके मनांसि प्रभया स्वया॥ १७॥ नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः। यक्षराक्षससङ्घाश्च रौद्राश्च पिशिताशनाः ॥॥१-३४-१८॥ एवमुक्त्वा महातेजा विरराम महामुनिः। साधु साध्विति तं सर्वे मुनयो ह्यभ्यपूजयन्॥ १९॥ कुशिकानामयं वंशो महान् धर्मपरः सदा। ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः॥ २०॥ विशेषेण भवानेव विश्वामित्रो महायशः। कौशिकी च सरिच्छ्रेष्ठा कुलोद्योतकरी तव॥ २१॥ इति तैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः। निद्रामुपागमच्छ्रीमानस्तंगत इवांशुमान्॥ २२॥ रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः। प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते॥ २३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे विस्वामित्रवंशवर्णनं नाम चतुस्त्रिंशः सर्गः ॥१-३४॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध