home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

पञ्चत्रिंशः सर्गः ॥१-३५॥

॥उमागङ्गावृत्तान्तसङ्क्षेपः॥

[ शोणभद्रमुत्तीर्य विश्वामित्रप्रभृतीनां गङ्गातटं गत्वा तत्र रात्रौ वासः, श्रीरामानुयुक्तेन विश्वामित्रेण तस्मै गङ्गोत्पत्तिकथाश्रावणम् ]

उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः। निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत॥ १॥ सुप्रभाता निशा राम पूर्वा सन्ध्या प्रवर्तते। उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय॥ २॥ तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकिं क्रियाम्। गमनं रोचयामास वाक्यं चेदमुवाच ह॥ ३॥ अयं शोणः शुभजलोऽगाधः पुलिनमण्डितः। कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम्॥ ४॥ एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम्। एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः॥ ५॥ ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा। जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम्॥ ६॥ तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम्। बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः॥ ७॥ तस्यास्तीरे तदा सर्वे चक्रुर्वासपरिग्रहम्। ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः॥ ८॥ हुत्वा चैवाग्निहोत्राणि प्राश्य चानुत्तमं हविः। विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः॥ ९॥ विश्वामित्रं महात्मानं परिवार्य समन्ततः। संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत्॥ १०॥ भगवन् श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम्। त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम्॥ ११॥ चोदितो रामवाक्येन विश्वामित्रो महामुनिः। वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे॥ १२॥ शैलेन्द्रो हिमवान् नाम धातूनामाकरो महान्। तस्य कन्याद्वयं जातं रूपेणाप्रतिमं भुवि॥ १३॥ या मेरुदुहिता राम तयोर्माता सुमध्यमा। मेना मेनोरमा देवी पत्नी हिमवतः प्रिया॥ १४॥ तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता। उमा नाम द्वितीयाभूत् कन्या तस्यैव राघव॥ १५॥ अथ ज्येष्ठां सुराः सर्वे देवकार्यचिकीर्षया। शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम्॥ १६॥ ददौ धर्मेण हिमवांस्तनयां लोकपावनीम्। स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया॥ १७॥ प्रतिगृह्य ततो देवास्त्रैलोक्याहितकारिणः। गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना॥ १८॥ या चान्या शैलदुहिता कन्यासीद् रघुनन्दन। उग्रं स व्रतमास्थाय तपस्तेपे तपोधना॥ १९॥ उग्रेण तपसा युक्तां ददौ शैलवरः सुताम्। रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम्॥ २०॥ एते ते शैलराजस्य सुते लोकनमस्कृते। गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव॥ २१॥ एतत् ते सर्वमाख्यातं यथा त्रिपथगा नदी। खं गता प्रथमं तात गतिं गतिमतां वर॥ २२॥ सैषा सुरनदी रम्या शैलेन्द्रस्य सुता तदा। सुरलोकं समारूढा विपापा जलवाहिनी॥ २३॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे उमागङावृत्तान्तो नाम पञ्चत्रिंशः सर्गः ॥१-३५॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध