home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

षट्त्रिंशः सर्गः ॥१-३६॥

॥उमामाहात्म्यम्॥

[ देवैः पार्वतीशिवयोः सुरतक्रीडातो निवर्तनमुमा-देव्या देवान् भूदेवीं चोद्दिश्य शापदानम् ]

उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ। प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम्॥ १॥ धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया। दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि॥ २॥ विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम्। त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी॥ ३॥ कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा। त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता॥ ४॥ तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः। निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत्॥ ५॥ पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः। दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे॥ ६॥ तस्य संक्रीडमानस्य महादेवस्य धीमतः। शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम्॥ ७॥ न चापि तनयो राम तस्यामासीत् परंतप। ततो देवाः समुद्विग्नाः पितामहपुरोगमाः॥ ८॥ यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यति। अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन्॥ ९॥ देव देव महादेव लोकस्यास्य हिते रत। सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि॥ १०॥ न लोका धारयिष्यन्ति तव तेजः सुरोत्तम। ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर॥ ११॥ त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय। रक्ष सर्वानिमाँल्लोकान् नालोकं कर्तुमर्हसि॥ १२॥ देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः। बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह॥ १३॥ धारयिष्याम्यहं तेजस्तेजस्येव सहोमया। त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु॥ १४॥ यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम्। धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः॥ १५॥ एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम्। यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति॥ १६॥ एवमुक्तः सुरपतिः प्रमुमोच महीतले। तेजसा पृथिवी येन व्याप्ता सगिरिकानना॥ १७॥ ततो देवाः सगन्धर्वा पुनरुचुर्हुताशनम्। प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः॥ १८॥ तदग्निना पुनर्व्याप्तं संजातः श्वेतपर्वतः। दिव्यं शरवणं चैव पावकादित्यसंनिभम्॥ १९॥ यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः। अथोमां च शिवं चैव देवाः सर्षिगणास्तदा॥ २०॥ पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः। अथ शैलसुता राम त्रिदशानिदमब्रवीत्॥ २१॥ अप्रियस्य कृतस्याद्य फलं प्राप्स्यथ मे सुराः। इत्युक्त्वा सलिलं गृह्य पार्वती भास्करप्रभा॥ २२॥ समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना। यस्मान्निवारिता चाहं संगता पुत्रकाम्यया॥ २३॥ अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ। अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः॥ २४॥ एवमुक्त्वा सुरान् सर्वाञ्शशाप पृथिवीमपि। अवने नैकरूपा त्वं बहुभार्या भविष्यसि॥ २५॥ न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता। प्राप्स्यसि त्वं सुदुर्मेधो मम पुत्रमनिच्छती॥ २६॥ तान् सर्वान् व्रीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा। गमनायोपचक्राम दिशं वरुणपालिताम्॥ २७॥ स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः। हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः॥ २८॥ एष ते विस्तरो राम शैलपुत्र्या निवेदितः गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मण॥ २९॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे उमामाहात्म्यं नाम षट्त्रिंशः सर्गः ॥१-३६॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध