home-vayusutha: प्रस्तावना बालकाण्डम् अयोध्याकाण्डम् अरण्यकाण्डम् किष्किन्धाकाण्डम् सुन्दरकाण्डम् युद्धकाण्डम् श्रीमद्भगवतमहापुराणम्
boat

श्रीमद्वाल्मीकीरामायणम्
बालकाण्डम्

अष्टात्रिंशः सर्गः ॥१-३८॥

॥सगरपुत्रजन्म॥

[ सगरस्य प्रजानामुत्पत्तिस्तेन यज्ञस्यायोजनं च ]

तां कथां कौशिको रामे निवेद्य मधुराक्षराम्। पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत्॥ १॥ अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः। सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः॥ २॥ वैदर्भदुहिता राम केशिनी नाम नामतः। ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी॥ ३॥ अरिष्टनेमेदुहिता रूपेणाप्रतिमा भुवि। द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता॥ ४॥ ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस्तपः। हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ॥ ५॥ अथ वर्षशते पूर्णे तपसाराधितो मुनिः। सगराय वरं प्रादाद् भृगुः सत्यवतां वरः॥ ६॥ अपत्यलाभः सुमहान् भविष्यति तवानघ। कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ॥ ७॥ एका जनयिता तात पुत्रं वंशकरं तव। षष्टिं पुत्रसहस्राणि ह्यपरा जनयिष्यति॥ ८॥ भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम्। ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा॥ ९॥ एकः कस्याः सुतो ब्रह्मन् का बहून् जनयिष्यति। श्रोतुमिच्छावहे सम्यक् सत्यमस्तु वचस्तव॥ १०॥ तयोस्तद् वचनं श्रुत्वा भृगुः परमधार्मिकः। उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम्॥ ११॥ एको वंशकरो वास्तु बहवो वा महाबलाः। कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति॥ १२॥ मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन। पुत्रं वंशकरं राम जग्राह नृपसंनिधौ॥ १३॥ षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा। महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान्॥ १४॥ प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य च। जगाम स्वपुरं राजा सभार्यो रघुनन्दन॥ १५॥ अथ काले गते तस्मिन् ज्येष्ठा पुत्रं व्यजायत। असमञ्ज इति ख्यातं केशिनी सगरात्मजम्॥ १६॥ सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत। षष्टिः पुत्रसहस्राणि तुम्बभेदाद् विनिःसृताः॥ १७॥ घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन्। कालेन महता सर्वे यौवनं प्रतिपेदिरे॥ १८॥ अथ दीर्घेण कालेन रूपयौवनशालिनः। षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा॥ १९॥ स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसम्भवः। बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन॥ २०॥ प्रक्षिप्य प्राहसन्नित्यं मज्जतस्तान् निरीक्ष्य वै। एवं पापसमाचारः सज्जनप्रतिबाधकः॥ २१॥ पौराणामहिते युक्तः पित्रा निर्वासितः पुरात्। तस्य पुत्रोंऽशुमान् नाम असमञ्जस्य वीर्यवान्॥ २२॥ सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः। ततः कालेन महता मतिः समभिजायत॥ २३॥ सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता। स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा। यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे॥ २४॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे सगरपुत्रजन्म नाम अष्टात्रिंशः सर्गः ॥१-३८॥


बालअयोध्याअरण्यकिष्किन्धासुन्दरयुद्ध