विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनः। उवाच परमप्रीतो मुनिं दीप्तमिवानलम्॥ १॥ श्रोतुमिच्छामि भद्रं ते विस्तरेण कथामिमाम्। पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत्॥ २॥ तस्य तद् वचनं श्रुत्वा कौतूहलसमन्वितः। विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव॥ ३॥ श्रूयतां विस्तरो राम सगरस्य महात्मनः। शंकरश्वशुरो नाम हिमवानचलोत्तमः॥ ४॥ विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम्। तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः स पुरुषोत्तम॥ ५॥ स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि। तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः॥ ६॥ अंशुमानकरोत् तात सगरस्य मते स्थितः। तस्य पर्वणि तं यज्ञं यजमानस्य वासवः॥ ७॥ राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत्। ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः॥ ८॥ उपाध्यायगणाः सर्वे यजमानमथाब्रुवन्। अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते॥ ९॥ हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम्। यज्ञच्छिद्रं भवत्येतत् सर्वेषामशिवाय नः॥ १०॥ तत् तथा क्रियतां राजन् यज्ञोच्छिद्रः कृतुर्भवेत्। उपाध्यायवचः श्रुत्वा तस्मिन् सदसि पार्थिवः॥ ११॥ षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह। गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः॥ १२॥ मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः। तद् गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः॥ १३॥ समुद्रमालिनीं सर्वां पृथिवीमुपगच्छत। एकैकं योजनं पुत्रा विस्तारमभिगच्छत॥ १४॥ यावत् तुरगसंदर्शस्तावत् खनत मेदिनीम्। तं चैव हयहर्तारं मार्गमाणा ममाज्ञया॥ १५॥ दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम्। इह स्थास्यामि भद्रं वो यावत् तुरगदर्शनम्॥ १६॥ ते सर्वे हृष्टमनसो राजपुत्रा महाबलाः। जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः॥ १७॥ गत्वा तु पृथिवीं सर्वामदृष्ट्वाश्वं महाबलाः। योजनायामविस्तारमेकैको धरणीतलम्॥ १८॥ बिभिदुः पुरुषव्याघ्रा वज्रस्पर्शसमैर्नखैः। शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः॥ १९॥ भिद्यमाना वसुमती ननाद रघुनन्दन। नागानां वध्यमानानामसुराणां च राघव॥ २०॥ राक्षसानां च दुर्धर्षः सत्त्वानां निनदोऽभवत्। योजनानां सहस्राणि षष्टिं तु रघुनन्दन॥ २१॥ बिभिदुर्धरणीं वीरा रसातलमनुत्तमम्। एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः॥ २२॥ खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः। ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः॥ २३॥ सम्भ्रान्तमनसः सर्वे पितामहमुपागमन्। ते प्रसाद्य महात्मानं विषण्णवदनास्तदा॥ २४॥ ऊचुः परमसंत्रस्ताः पितामहमिदं वचः। भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः॥ २५॥ बहवश्च महात्मानो वध्यन्ते जलचारिणः। अयं यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते। इति ते सर्वभूतानि हिंसन्ति सगरात्मजाः॥ २६॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे पृथिवीविदारणं नाम एकोनचत्वारिंशः सर्गः ॥१-३९॥