देवतानां वचः श्रुत्वा भगवान् वै पितामहः। प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान्॥ १॥ यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः। महिषी माधवस्यैषा स एव भगवन् प्रभुः॥ २॥ कापिलं रूपमास्थाय धारयत्यनिशं धराम्। तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः॥ ३॥ पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः। सगरस्य च पुत्राणां विनाशोऽदीर्घजीविनाम्॥ ४॥ पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिन्दमाः। देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम्॥ ५॥ सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम्। पृथिव्यां भिद्यमानायां निर्घातसमनिःस्वनः॥ ६॥ ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम्। सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन्॥ ७॥ परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः। देवदानवरक्षांसि पिशाचोरगपन्नगाः॥ ८॥ न च पश्यामहेऽश्वं तमश्वहर्तारमेव च। किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम्॥१-४०-९॥ तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः। समन्युरब्रवीद् वाक्यं सगरो रघुनन्दन॥ १०॥ भूयः खनत भद्रं वो विभेद्य वसुधातलम्। अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ॥ ११॥ पितुर्वचनमासाद्य सगरस्य महात्मनः। षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन्॥ १२॥ खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम्। दिशागजं विरूपाक्षं धारयन्तं महीतलम्॥ १३॥ सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन। शिरसा धारयामास विरूपाक्षो महागजः॥ १४॥ यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः। खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत्॥ १५॥ तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम्। मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम्॥ १६॥ ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः। दक्षिणस्यामपि दिशि ददृशुस्ते महागजम्॥ १७॥ महापद्मं महात्मानं सुमहत्पर्वतोपमम्। शिरसा धारयन्तं गां विस्मयं जग्मुरुत्तमम्॥ १८॥ ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः। षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम्॥ १९॥ पश्चिमायामपि दिशि महान्तमचलोपमम्। दिशागजं सौमनसं ददृशुस्ते महाबलाः॥ २०॥ तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम्। खनन्तः समुपक्रान्ता दिशं हैमवतीं ततः॥ २१॥ उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डरम्। भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम्॥ २२॥ समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम्। षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम्॥ २३॥ ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम्। रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः॥ २४॥ ते तु सर्वे महत्मानो भिमवेगा महबलाः। ददृशुः कपिलं तत्र वासुदेवं सनातनम्॥ २५॥ हयं च तस्य देवस्य चरन्तमविदूरतः। प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनंदन॥ २६॥ ते तं हयहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः। खनित्रलाङ्गलधरा नानावृक्षशिलाधराः॥ २७॥ अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन्। अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि॥ २८॥ दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान्। श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन॥ २९॥ रोषेण महताविष्टो हुंकारमकरोत् तदा। ततस्तेनाप्रमेयेण कपिलेन महात्मना। भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः॥ ३०॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे कपिलदर्शनं नाम चत्वारिंशः सर्गः ॥१-४०॥