पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन। नप्तारमब्रवीद् राजा दीप्यमानं स्वतेजसा॥ १॥ शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा। पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः॥ २॥ अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च। तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम्॥ ३॥ अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि। सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः॥ ४॥ एवमुक्तोऽशुमान् सम्यक् सगरेण महात्मना। धनुरादाय खड्गं च जगाम लघुविक्रमः॥ ५॥ स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः। प्रापद्यत नरश्रेष्ठस्तेन राज्ञाभिचोदितः॥ ६॥ देवदानवरक्षोभिः पिशाचपतगोरगैः। पूज्यमानं महातेजा दिशागजमपश्यत॥ ७॥ स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम्। पितॄन् स परिपप्रच्छ वाजिहर्तारमेव च॥ ८॥ दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वचः। आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि॥ ९॥ तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान्। यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे॥ १०॥ तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः। पूजितः सहयश्चैवागन्तासीत्यभिचोदितः॥ ११॥ तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः। भस्मराशीकृता यत्र पितरस्तस्य सागराः॥ १२॥ स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा। चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः॥ १३॥ यज्ञियं च हयं तत्र चरन्तमविदूरतः। ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः॥ १४॥ स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम्। सलिलार्थी महातेजा न चापश्यज्जलाशयम्॥ १५॥ विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम्। पितॄणां मातुलं राम सुपर्णमनिलोपभम्॥ १६॥ स चैनमब्रवीद् वाक्यं वैनतेयो महाबलः। मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः॥ १७॥ कपिलेनाप्रमेयेण दग्धा हीमे महाबलाः। सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम्॥ १८॥ गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ। तस्यां कुरु महाबाहो पितॄणां तु जल क्रियाम्॥ १९ ॥ भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी। तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया॥ २०॥ षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति। गङ्गमानय भद्रं ते देवलोकान्महीतलम्॥ २१॥ क्रीयतां यदि श्क्नोषि गङ्गायास्त्वतारणम्। गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ॥ २२॥ यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि। सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान्॥ २३॥ त्वरितं हयमादाय पुनरायान्महायशाः। ततो राजानमासाद्य दीक्षितं रघुनन्दन॥ २४॥ न्यवेदयद् यथावृत्तं सुपर्णवचनं तथा। तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः॥ २५॥ यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि। स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः॥ २६॥ गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत। अगत्वा निश्चयं राजा कालेन महता महान्। त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः॥ २७॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे सगरयज्ञसामप्तिर्नाम एकचत्वारिंशः सर्गः ॥१-४१॥