कालधर्मं गते राम सगरे प्रकृतीजनाः। राजानं रोचयामासुरंशुमन्तं सुधार्मिकम्॥ १॥ स राजा सुमहानासीदंशुमान् रघुनन्दन। तस्य पुत्रो महानासीद् दिलीप इति विश्रुतः॥ २॥ तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन। हिमवच्छिखरे पुण्ये तपस्तेपे सुदारुणम्॥ ३॥ द्वात्रिंशच्च साहस्राणि वर्षाणि सुमहायशाः। तपोवनं गतो राजा स्वर्गं लेभे तमहायशाः॥ ४॥ दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम्। दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत॥ ५॥ कथं गङ्गावतरणं कथं तेषां जलक्रिया। तारयेयं कथं चैतानिति चिन्तापरोऽभवत्॥ ६॥ तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः। पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः॥ ७॥ दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान्। त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत्॥ ८॥ अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति। व्याधिना नरशार्दूल कालधर्ममुपेयिवान्॥ ९॥ इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा। राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभम्॥ १०॥ भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन। अनपत्यो महातेजाः प्रजाकामः स चाप्रजाः॥ ११॥ मन्त्रिष्वाधाय तद् राज्यं गङ्गावतरणे रतः। स तपो दीर्घमातिष्ठद् गोकर्णे रघुनन्दन॥ १२॥ ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः। तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः॥ १३॥ अतीतानि महाबाहो तस्य राज्ञो महात्मनः। सुप्रीतो भगवान् ब्रह्मा प्रजानां प्रतिरीश्वरः॥ १५॥ ततः सुरगणैः सार्धमुपागम्य पितामहः। भगीरथं महात्मानं तप्यमानमथाब्रवीत्॥ १५॥ भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वर। तपसा च सुतप्तेन वरं वरय सुव्रत॥ १६॥ तमुवाच महातेजाः सर्वलोकपितामहम्। भगीरथो महाभागः कृताञ्जलिरुपस्थितः॥ १७॥ यदि मे भगवान् प्रीतो यद्यस्ति तपसः फलम्। सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः॥ १८॥ गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम्। स्वर्गं गच्छेयुरत्यन्तं सर्वे च प्रपितामहाः॥ १९॥ देया च संततिर्देव नावसीदेत् कुलं च नः। इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः॥ २०॥ उक्तवाक्यं तु राजानं सर्वलोकपितामहः। प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम्॥ २१॥ मनोरथो महानेष भगीरथ महारथ। एवं भवतु भद्रं ते इक्ष्वाकुकुलमव्ययम्॥ २२॥ इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता। तां वै धारयितुं श्क्तो हरस्तत्र नियुज्यताम्॥ २३॥ गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते। तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः॥ २४॥ तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत्। जगाम त्रिदिवं देवः सह सर्वैर्मरुद्गणैः॥ २५॥ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां बालकाण्डे भगीरथवरप्र्दानं नाम द्विचत्वारिंशः सर्गः ॥१-४२॥